सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ । चतुर्विशः पटलः । श्रीदेव्युवाच । देवदेव महादेव सृष्टिस्थित्यन्तकारक । यदुक्तमन्नदाकल्पे तद्वदस्व समाहितः ॥ १ ॥ अन्नदायाः परं मन्त्रं विशेषं कथयामि ते । इति मे कथितं भद्र तद्वदस्व समाहितः ॥ २ ॥ श्रीभैरव उवाच । यथा काली तथा नीला तथा चैवान्नदा शिवे । एतासां मन्त्रमेतस्मिन् कथितं परमेश्वरि ॥ ३ ॥ एका मूर्तिस्त्रिधा भूत्वा जगतां हितकारिणी । अन्नदायाः परं कल्पं कथितं तव सुन्दरि ॥ ४ ॥ मन्त्रराजं महादेवि शृणुष्वैकमनाः प्रिये । जृम्भणान्तं त्यक्तपार्श्व यात्रावारणरोहकम् ॥ ५ ॥ वामाक्षिसंयुतं देवि बिन्दुसंयुतमुत्तमम् । प्रथमं बीजमेतद्धि कथितं परमेश्वरि ॥ ६ ॥ he

  • अन्नवर्ण महादेवि महिकारसमन्वितम् । न्नं वर्णं चैव मे देहि स्वरायेन विभूषितम्॥

अन्नाधिलोहितं देवि तये-पदसमन्वितम् । ममान्नं-पदमीशानि प्रदापय पदं ततः ॥ इति तन्त्रान्तरोक्को मन्त्रः ॥