सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५० बृहन्नीलतन्त्रम् । गन्धर्वैः संस्तुता सा हि तथा चेन्दा महापरा ॥ २१ ॥ पवित्रा परमा माया महामाया महोदया (१००) । इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि ॥ २२ ॥ यः पठेत् प्रातरुत्थाय स तु विद्यानिधिर्भवेत् । इह लोके सुखं भुक्त्वा देवीसायुज्यमाप्नुयात् ॥ २३ ॥ तस्य वश्या भवन्त्येते सिद्धौघाः सचराचराः । खेचरा भूचराश्चैव तथा स्वर्गचराश्च ये ॥ २४ ॥ ते सर्वे वशमायान्ति साधकस्य हि नान्यथा । नाम्नां वरं महेशानि परित्यज्य सहस्रकम् ॥ २५ ॥ पठितव्यं शतं देवि चतुर्वर्गफलप्रदम् । अज्ञात्वा परमेशानि नाम्नां शतं महेश्वरि ॥ २६ ॥ भजते यो महाकालीं सिद्धिर्नास्ति कलौ युगे । प्रपठेत् प्रयतो भक्त्या तस्य पुण्यफलं शृणु ॥ २७ ॥ लक्षवर्षसहस्रस्य कालीपूजाफलं भवेत् । बहुना किमिहोक्तेन वाञ्छितार्थी भविष्यति ।। २८ ॥ इति श्रीबृहन्नीलतन्त्रे भैरवपार्वतीसंवादे ( कालीशतनाम- निरूपणं ) त्रयोविंशः पटलः ॥ २३ ।।