सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श २५६ बृहन्नीलतन्त्रम् । अहं शिवः परात्मा च विमाता तु महेश्वरी । सर्वमेव महेशानि कथितं दुर्लभं शिवे ॥ ५५ ॥ इति श्रीबृहन्नीलतत्रे सर्वतन्त्रोत्तमोत्तमे भैरव भैरवीसंवादे (अन्नदा- मन्त्रोद्धार-शतनाम-तन्त्रमाहात्म्यनिरूपणं) चतुर्विंशः पटलः ॥२४॥ समाप्तं चेदं श्रीबृहन्नीलतन्त्रम् । पश्चाङ्कनन्दशशि (१९६५) संमितवैक्रमेऽब्दे श्रीनीलतन्त्रकमशेषसुतन्त्रसारम् । श्रीभैरवागममहाब्धिमहार्धरत्नं संस्कृत्य शुद्धिपदपाठसुमीलनाद्यैः ॥ १॥ प्राचीनहस्तलिखितानपि जीर्णभूयो- ग्रन्थान् प्रयत्नवशतोऽनुविधृत्य लब्धान् । औदार्यवीर्यसुभगत्वगुणस्फुरच्छ्री- राजाधिराज-हरिसिंहनृपानुशिष्ट्या ॥ २ ॥ उच्चैः पदाधिकृतिभाजन-काकजाति- श्रीरामचन्द्रविबुधाधिकृतिप्रबन्धे । संपाद्य शास्त्रि-शिवनाथसहायभाजा प्राकाशि शास्त्रिहरभट्ट-विपश्चितेदम् ॥ ३ ॥ - - Sosoóp:*:er