सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४७ द्वाविंशः पटलः । यः पठेत् साधको नित्यं स भवेत् संपदां पदम् । यः पठेत् पाठयेद्वापि शृणोति श्रावयेदथ ॥ १६४ ॥ न किश्चिद् दुर्लभं लोके स्तवस्यास्य प्रसादतः । ब्रह्महत्या सुरापानं सुवर्णहरणं तथा ।। १६५ ।। गुरुदाराभिगमनं यच्चान्यद् दुष्कृतं कृतम् । सर्वमेतत्पुनात्येव सत्यं सुरगणार्चिते ॥ १६६ ॥ रजस्वलाभगं दृष्ट्वा पठेत् स्तोत्रमनन्यधीः । स शिवः सत्यवादी च भवत्येव न संशयः ॥ १६७ ।। परदारयुतो भूत्वा पठेत् स्तोत्रं समाहितः । सर्वैश्वर्ययुतो भूत्वा महाराजत्वमाप्नुयात् ।। १६८ ।। परनिन्दां परद्रोहं परहिंसां न कारयेत् । शिवभक्ताय शान्ताय प्रियभक्ताय वा पुनः ॥ १६६ ।। स्तवं च दर्शयेदेनमन्यथा मृत्युमाप्नुयात् । अस्मात् परतरं नास्ति तन्त्रमध्ये सुरेश्वरि ॥ १७० ॥ महाकाली महादेवी तथा नीलसरस्वती । न भेदः परमेशानि भेदकृन्नरकं व्रजेत् ॥ १७१ ।। इदं स्तोत्रं मया दिव्यं तव स्नेहात् प्रकथ्यते । उभयोरेवमेकत्वं भेदबुद्ध्या न तां भजेत् । स योगी परमेशानि समो मानापमानयोः ॥ १७२ ।। . Bero इति श्रीबृहन्नीलतन्त्रे भैरवपार्वतीसंवादे ( कालीसहस्रनाम- निरूपणं) द्वाविंशः पटलः ॥ २२ ॥