सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४६ बृहन्नीलतन्त्रम् । बगला-वाहिनी वृद्धा बाला च बालरूपिणी । बालक्रीडारता बाला-बलासुरविनाशिनी ॥ १५२ ॥ बाल्यस्था यौवनस्था च महायौवनसंरता । विशिष्टयौवना काली कृष्णदुर्गा सरस्वती ॥ १५३ ।। कात्यायनी च चामुण्डा चण्डासुरविघातिनी । चण्डमुण्डधरा देवी मधुकैटभनाशिनी ॥ १५४ ॥ ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा । रुद्रकाली विशालाक्षी भैरवी कालरूपिणी ॥ १५५ ॥ महामाया महोत्साहा महाचण्डविनाशिनी । कुलश्रीः कुलसंकीर्णा कुलगर्भनिवासिनी ॥ १५६ ।। कुलाङ्गारा कुलयुता कुलकुन्तलसंयुता । कुलदर्भग्रहा चैव कुलगर्तप्रदायिनी ॥ १५७ ।। कुलप्रेमयुता साध्वी शिवप्रीतिः शिवाबलिः । शिवसक्ता शिवप्राणा महादेवकृतालया ॥ १५८ ॥ महादेवप्रिया कान्ता महादेवमदातुरा । मत्ता-मत्तजनप्रेमधात्री विभववर्द्धिनी ॥ १५ ॥ मदोन्मत्ता महाशुद्धा मत्तप्रेमविभूषिता । मत्तप्रमत्तवदना मत्तचुम्बनतत्परा ।। १६० ॥ मत्तक्रीडातुरा भैमी तथा हैमवती मतिः । मदातुरा मदगता विपरीतरतातुरा ।। १६१ ।। वित्तप्रदा वित्तरता वित्तवर्धनतत्परा (११००)। इति ते कथितं सर्व कालीनामसहस्रकम् ॥ १६२ ॥ सारात्सारतरं दिव्यं महाविभववर्द्धनम् । गाणपत्यप्रदं राज्यप्रदं षट्कर्मसाधकम् ॥ १६३ ॥