सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशः पटलः । २४५ मकारपञ्चमप्रीता मकारपञ्चगोचरा । ऋवर्णरूपप्रभवा ऋवर्णा सर्वरूपिणी ॥ १४० ॥ (स श)र्वाणी सर्वनिलया सर्वसारसमुद्भवा । सर्वेश्वरी सर्वसारा सर्वे(षांच्छा) सर्वमोहिनी ॥ १४१ ॥ गणेशजननी दुर्गा महामाया महेश्वरी । महेशजननी मोहा विद्या-विद्योतनी विभा ॥ १४२ ॥ स्थिरा च स्थिरचित्ता च सुस्थिरा धर्मरञ्जिनी ।। धर्मरूपा धर्मरता धर्माचरणतत्परा ॥ १४३ ॥ धर्मानुष्ठानसन्दर्भा सर्वसन्दर्भसुन्दरी । स्वधा-स्वाहा-वषट्कारा श्रौषट्-वौषट्-स्वधात्मिका ॥ १४४ ॥ ब्राह्मणी ब्रह्मसंबन्धा ब्रह्मस्थाननिवासिनी । पद्मयोनिः पद्मसंस्था चतुर्वर्गफलप्रदा ॥ १४५ ॥ चतुर्भुजा शिवयुता शिवलिङ्गप्रवेशिनी (१०००) । महाभीमा चारुकेशी गन्धमादनसंस्थिता ॥ १४६ ॥ गन्धर्वपूजिता गन्धा सुगन्धा सुरपूजिता । गन्धर्वनिरता-देवी सुरभी सुगन्धा तथा ॥ १४७ ।। पद्मगन्धा महागन्धा गन्धामोदितदिङ्मुखा । कालदिग्धा कालरता महिषासुरमर्दिनी ॥ १४८ ॥ विद्या-विद्यावती चैव विद्येशा विज्ञसंभवा । विद्याप्रदा महावाणी महाभैरवरूपिणी ॥ १४६ ॥ भैरवप्रेमनिरता महाकालरता-शुभा । माहेश्वरी गजारूढा गजेन्द्रगमना तथा ॥ १५० ॥ यज्ञेन्द्रललना चण्डी गजासनपराश्रया । गजेन्द्रमन्दगमना महाविद्या महोज्ज्वला ॥ १५१ ॥