सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४४ बृहन्नीलतन्त्रम् । फलप्रीता फलगता फलसन्धानसन्धिनी । फलोन्मुखी सर्वसत्त्वा महासत्त्वा च सात्त्विका ॥ १२८ ॥ सर्वरूपा सर्वरता सर्वसत्त्वनिवासिनी । महारूपा महाभागा महामेघस्वरूपिणी ॥ १२६ ॥ भयनाशा गणरता गणगीता महागतिः । सद्गतिः (१००) सत्कृतिः साक्षात्-सदासनगता-शुभा ॥१३०॥ त्रैलोक्यमोहिनी गङ्गा स्वर्गङ्गा स्वर्गवासिनी । महानन्दा सदानन्दा नित्या सत्यस्वरूपिणी ॥ १३१ ॥ शुक्रस्नाता शुक्रकरी शुक्रसेव्यातिशुक्रिणी । महाशुक्रा शुक्ररता शुक्रसृष्टिविधायिनी ॥ १३२ ।। सारदा साधकप्राणा साधकप्रेमवर्द्धिनी । साधकाभीष्टदा नित्यं साधकप्रेमसेविता ॥ १३३ ॥ साधकप्रेमसर्वस्वा साधकाभक्तरक्तपा । मल्लिका मालती जातिः सप्तवर्णा महाकचा ॥ १३४ ।। सर्वमयी सर्वशुभ्रा गाणपत्यप्रदा तथा । गगना गगनप्रीता तथा गगनवासिनी ॥ १३५ ।। गणनाथप्रिया भव्या भवार्चा सर्वमङ्गला । गुह्यकाली भद्रकाली शिवरूपा सतांगतिः ॥ १३६ ॥ सद्भक्ता सत्परा सेतुः सर्वाङ्गसुन्दरी मघा । क्षीणोदरी महावेगा वेगानन्दस्वरूपिणी ॥ १३७ ।। रुधिरा रुधिरप्रीता रुधिरानन्दशोभना । पञ्चमी-पञ्चमप्रीता तथा पञ्चमभूषणा ॥ १३८ । पञ्चमीजपसंपन्ना पञ्चमीयजने-रता । ककारवर्णरूपा च ककाराक्षररूपिणी ॥ १३६ ॥