सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ बृहन्नीलतन्त्रम् । निर्जने च वने घोरे (श्वा)पदैः परिभूषिते । माहात्म्यात् तस्य देवेशि चमत्कारी भवेत् प्रिये ॥ ६ ॥ तस्मात् सर्वप्रयत्नेन गोपनीयं प्रयत्नतः । तत्रराजं नीलतत्रं तव स्नेहात् प्रकाश्यते ॥१० ।। गोपनीयतमं देवि स्वयोनिरिव पार्वति । विशेषं मत्रराजस्य कथितव्यं वरानने ॥ ११ ॥ यज्ज्ञानात् साधकाः सर्वे सर्वैश्वर्यमवाप्नुयुः । सारात् सारतरं देवि सर्वसारस्वतप्रदम् ॥ १२ ॥ नित्यपूजां मन्त्रराजं मात्रोपासनिकं विधिम् । पुरश्चर्या च नैमित्तकाम्यानां नियमं तथा ॥ १३ ॥ नियमं च रहस्यानां कुमारीपूजनक्रमम् । मत्रान्तरं च देवेशि पुरश्चर्या विशेषतः ॥ १४ ॥ फलं स्तोत्रं विशेषेण कथितव्यं वरानने । भावानां निर्णय वाच्यं पूजान्तरविधिं तथा ॥ १५ ॥ होमस्य नियमं वाच्यं वासनातत्त्वनिर्णयम् । गुप्तपूजां गुप्तमत्रं तथा गुप्तजपक्रमम् ॥ १६ ॥ स्वर्णरूप्यादिकरणं सूतभस्म तथैव च । सूतस्य निर्णयं वाच्यं तथा षट्कर्मलक्षणम् ॥ १७ ॥ विद्योत्पत्तिं विशेषेण कथयिष्यामि तच्छृणु । श्रीदेव्युवाच । इदानीं श्रोतुमिच्छामि तारिणीं भेदसंयुताम् ॥ १८ ॥ सपर्याभेदसंयुक्तां महापातकनाशिनीम् । श्रीशिव उवाच । सिद्धविद्यां महादेवि मायामोहनकारिणीम् ॥ १३ ॥ १ "परिपूरिते" पाठान्तरम् । २ "विशेषतः" ख. पाठः । 6 1 6