सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ बृहन्नीलतन्त्रम् । प्रथमः पटलः । ॐ श्रीगणेशाय नमः । नमस्तारायै । कैलासशिखरासीनं भैरवं कालसंज्ञितम् । प्रोवाच सादरं देवी तस्य वक्षःसमाश्रिता ॥ १ ॥ पुरा प्रतिश्रुतं देव कालीतत्रप्रकाशने । नीलतन्त्रप्रकाशाय तद् वदस्व सदाशिव ॥ २ ॥ यस्य विज्ञानमात्रेण विजयी भुवि जायते । यज् ज्ञात्वा साधकाः सर्वे विचरन्ति यथा तथा ॥ ३ ॥ यस्य विज्ञानमात्रेण कविता चित्तमोदिनी । जायते च महादेव तत्त्वं तत् कथयस्व मे ॥ ४ ॥ श्रीमहाकालभैरव उवाच । शृणु सा (ध्वि) वरारोहे सर्वार्थस्य प्रदायिनि । तत्त्वं तत् कथयिष्यामि तव स्नेहाद् गणाधिपे ॥ ५ ॥ नीलतन्त्रप्रकाशाय प्रतिज्ञासीन्मम प्रिये । तस्मात् कथ्यं महेशानि शृणु( ध्व) कमलानने ॥ ६ ॥ गुह्याद् गुह्यतरं तत्रं न प्रकाश्यं कदाचन । तत्रस्यास्य प्रकाशाच्च सिद्धिहानिर्न संशयः ॥ ७ ॥ यद्गृहे निवसेत तत्रं तत्र लक्ष्मीः स्थिरायते । राजद्वारे श्मशाने च सभायां रणमध्यतः ॥ ८ ॥