सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४२ बृहन्नीलतन्त्रम् । सुराशना सुराप्रीता सुरासवविमर्दिता । सुरापानमहातीक्ष्णा सर्वागमविनिन्दिता ॥ १०४ ॥ कुण्डगोलसदाप्रीता गोलपुष्पसदारतिः । कुएडगोलोद्भवप्रीता कुण्डगोलोद्भवात्मिका || १०५ ॥ स्वयम्भवा शिवा-धात्री पावनी लोकपावनी । महालक्ष्मीर्महेशानी महाविष्णुप्रभाविनी ॥ १०६ ॥ विष्णुप्रिया विष्णुरता विष्णुभक्तिपरायणा । विष्णोर्वक्षःस्थलस्था च विष्णुरूपा च वैष्णवी ॥ १०७ ।। अश्विनी भरणी चैव कृत्तिका रोहिणी तथा । धृतिर्मेधा तथा तुष्टिः पुष्टिरूपा चिता चितिः ॥ १०८ ।। चितिरूपा चित्स्वरूपा ज्ञानरूपा सनातनी । सर्वविज्ञजया गौरी गौरवर्णा शची शिवा ॥ १०६ ।। भवरूपा भवपरा भवानी भवमोचिनी । पुनर्वसुस्तथा पुष्या तेजस्वी सिन्धुवासिनी ॥ ११० ॥ शुक्राशना शुक्रभोगा शुक्रोत्सारणतत्परा । शुक्रपूज्या शुक्रवन्दया शुक्रभोग्या पुलोमजा ॥ १११ ॥ शुक्रार्च्या शुक्रसंतुष्टा सर्वशुक्रविमुक्तिदा । शुक्रमूर्तिः शुक्रदेहा शुक्राङ्गी शुक्रमोहिनी ॥ ११२ ।। देवपूज्या देवरता युवती सर्वमङ्गला । सर्वप्रियङ्करी भोग्या भोगरूपा (भो?भ )गाकृतिः ॥ ११३ ।। भगप्रेता भगरता भगप्रेमपरा तथा । भगसंमदनप्रीता भगोपरि-निवेशिता ॥ ११४ ॥ भगदक्षा भगाकान्ता भगसौभाग्यवर्द्धिनी । दक्षकन्या महादक्षा सर्वदक्षा प्रदन्तिका (८००) ॥ ११५ ॥