सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशः पटलः । २४१ मनोज्ञा सुन्दरी रम्या हंसी च चारुहासिनी । नितम्बिनी नितम्बाढ्या नितम्बगुरुशोभिता ॥ ६२ ॥ पट्टवस्त्रप(रि री)धाना पट्टवस्त्रधरा-शुभा । कपूरचन्द्रवदना कुङ्कुमद्रवशोभिता ॥ ६३ ॥ पृथिवी पृथुरूपा सा पार्थिवेन्द्रविनाशिनी । रत्नवेदिः सुरेशा च सुरेशी सुरमोहिनी ॥ ६४ ! शिरोमणिर्मणिग्रीवा मणिरत्नविभूषिता । उर्वशी शमनी काली महाकालस्वरूपिणी ॥ ६५ ॥ सर्वरूपा महासत्वा रूपान्तरविलासिनी । शिवा शैवा च रुद्राणी तथा शिवनिनादिनी ।। ६६ ॥ मातङ्गिनी भ्रामरी च तथैवा( ङ्गन नङ्ग )मेखला । योगिनी डाकिनी चैव तथा महेश्वरी-परा ॥ १७ ॥ अलम्बुषा भवानी च महाविद्यौघसंभृता । गृध्ररूपा ब्रह्मयोनिमहानन्दा महोदया ॥ १८ ॥ विरूपाक्षा महानादा चण्डरूपा कृताकृतिः । वरारोहा महावल्ली महात्रिपुरसुन्दरी ॥ ६ ॥ भगात्मिका भगाधाररूपिणी भगमालिनी । लिङ्गाभिधायिनी देवी (७००) महामाया महास्मृतिः ॥ १० ॥ महामेधा महाशान्ता शान्तरूपा वरानना । लिङ्गमाला लिङ्गभूषा भगमालाविभूषणा ॥ १०१ ॥ भगलिङ्गामृतप्रीता भगलिङ्गामृतात्मिका । भगलिङ्गार्चनप्रीता भगलिङ्गस्वरूपिणी ॥ १०२ ॥ स्वयम्भूकुसुमप्रीता स्वयम्भूकुसुमासना । स्वयम्भूकुसुमरता लतालिङ्गनतत्पग ॥ १०३ ॥