सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४० बृहन्नीलतन्त्रम् । नलिनी ललना शुभ्रा शुभ्राननविभूषिता । ललजिह्वा नीलपदा तथा सु(मु म)खदक्षिणा ॥ ८० ॥ बलिभक्ता बलिरता बलिभोग्या महारता । फलभोग्या फलरसा फलदा श्रीफलप्रिया ॥ ८१ ।। फलिनी फलसंवज्रा फलाफलनिवारिणी । फलप्रीता फलगता फलसंदानसन्धिनी ॥ ८२ ॥ फलोन्मुखी सर्वसत्त्वा महासत्त्वा च सात्त्विकी । सर्वरूपा सर्वरता सर्वसत्वनिवासिनी ॥ ८३ ॥ महारूपा महाभागा महामेघस्वरूपिणी । भयनासा गणरता गणप्रीता महागतिः ॥ ८४ ॥ सद्गतिः सत्कृतिः स्वक्षा शवासनगता शुभा । त्रैलोक्यमोहिनी गङ्गा स्वर्गगा स्वर्गवासिनी ॥ ५ ॥ महानन्दा सदानन्दा (६००) नित्यानित्यस्वरूपिका । सत्यगन्धा सत्यगणा सत्यरूपा महाकृतिः ॥ ८६ ॥ श्मशानभैरवी काली तथा भयविमर्दिनी । त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी ।। ८७ ॥ त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी । महासप्तदशी षष्ठी सप्तमी (चा)ष्टमी तथा ॥ ८८ !! नवमी दशमी देवप्रिया चैकादशी शिवा । द्वादशी परमा दिव्या नीलरूपा त्रयोदशी ॥ ८६ ॥ चतुर्दशी पौर्णमासी राजराजेश्वरी तथा । त्रिपुरा त्रिपुरेशी च तथा त्रिपुरमर्दिनी ॥ ६० ।। सर्वाङ्गसुन्दरी रक्ता रक्तवस्त्रोपवीतिनी । चामरी चामरप्रीता चमरासुरमर्दिनी ॥ ११ ॥