सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । गुणातीता गुणप्रीता गुणरक्ता गुणात्मिका | सगुणा निर्गुणा सीता निष्ठा काष्ठा प्रतिष्ठिता ॥ ५६ ॥ धनिष्ठा धनदा धन्या वसुदा सुप्रकाशिनी । गुर्वी गुरुतरा धौम्या धौम्यासुरविनाशिनी (४००) ॥ ५७ ॥ निष्कामा धनदा कामा सकामा कामजीवना । चिन्तामणिः कल्पलता तथा शङ्करवाहिनी ॥ ५८ ॥ शङ्करी शङ्कररता तथा शङ्करमोहिनी । भवानी भवदा भव्या भवप्रीता भवालया ॥ ५६ ।। महादेवप्रिया रम्या रमणी कामसुन्दरी । कदलीस्तम्भसंरामा निर्मलासनवासिनी ॥ ६० ।। माथुरी मथुरा माया तथा सुरभिवर्द्धिनी । व्यक्ताव्यक्तानेकरूपा सर्वतीर्थास्पदा शिवा ॥ ६१ ॥ तीर्थरूपा महारूपा तथागस्त्यवधूरपि । शिवानी शैवलप्रीता तथा शैवलवासिनी ॥ ६२ ।। कुन्तला कुन्तलप्रीता तथा कुन्तलशोभिता । महाकचा महाबुद्धिमहामाया महागदा ॥ ६३ ॥ महामेघस्वरूपा च तथा कङ्कणमोहिनी । देवपूज्या देवरता युवती सर्वमङ्गला ॥ ६४ ॥ सर्वप्रियङ्करी भोग्या भोगरूपा भगाकृतिः । भगप्रीता भगरता भगप्रेमरता सदा ॥ ६५ ॥ भगसंमर्दनप्रीता भगोपरि-निवेशिता । भगदक्षा भगाक्रान्ता भगसौभाग्यवर्धिनी ॥ ६६ ॥ दक्षकन्या महादक्षा सर्वदक्षा प्रचण्डिका । दण्डप्रिया दण्डरता दण्डताडनतत्परा ॥ ६७ ॥