सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विंशः पटलः । २२७ अस्मात् परतरं नास्ति स्तोत्रमध्ये न संशयः ॥ २७ ॥ नाम्नां शतं पठेद् मन्त्रं संजप्य भक्तिभावतः । प्रत्यहं प्रपठेद् देवि यदीच्छेत् शुभमात्मनः ॥ २८ ॥ इदानीं कथयिष्यामि विद्योत्पत्तिं वरानने । येन विज्ञानमात्रेण विजयी भुवि जायते ॥ २६ ।। योनिबीजत्रिरावृत्त्या मध्यरात्रौ वरानने । अभिमन्त्र्य जलं स्निग्धं अष्टोत्तरशतेन च ॥ ३० ॥ तज्जलं तु पिबेद् देवि षण्मासं जपते यदि । सर्वविद्यामयो भूत्वा मोदते पृथिवीतले ॥ ३१ शक्तिरूपां महादेवीं शृणु हे नगनन्दिनि । वैष्णवः शैवमार्गो वा शाक्लो वा गाणपोऽपि वा ॥ ३२ ॥ तथापि शक्तराधिक्यं शृणु भैरवसुन्दरि । । सच्चिदानन्दरूपाच्च सकलात् परमेश्वरात् ॥ ३३ ।। शक्तिरासीत् ततो नादो नादाद् बिन्दुस्ततः परम् । अथ बिन्द्वात्मनः कालरूपविन्दुकलात्मनः ॥ ३४ ॥ जायते च जगत्सर्वं सस्थावरचरात्मकम् । श्रोतव्यः स च मन्तव्यो निर्ध्यातव्यः स एव हि ॥ ३५ ॥ साक्षात्कार्यश्च देवेशि आगमैर्विविधैः शिवे । श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यो मननादिभिः ॥ ३६ ॥ उपपत्तिभिरेवायं ध्यातव्यो गुरुदेशतः । तदा स एव सर्वात्मा प्रत्यक्षो भवति क्षणात् ।। ३७ ॥ तस्मिन् देवेशि प्रत्यक्षे शृणुष्व परमेश्वरि । भावैर्बहुविधैर्देवि भावस्तत्रापि नीयते ॥ ३८ ॥ भक्तेभ्यो नानाघासेभ्यो गवि चैको यथा रसः । स(तु)दुग्धाख्यसंयोगे नानात्वं लभते प्रिये ॥ ३६ ॥