सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२८ बृहन्नीलतन्त्रम् । तृणेन जायते देवि रसस्तस्मात् परो रसः । तस्मात् दधि ततो हव्यं तस्मादपि रसोदयः ॥ ४० ॥ स एव कारणं तत्र तत्कार्यं स च लक्ष्यते । दृश्यते च महादे(ववि)न कार्यं न च कारणम् ॥ ४१ ॥ तथैवायं स एवात्मा नानाविग्रहयोनिषु । जायते च ततो जातः कालभेदो हि भाव्यते ॥ ४२ ॥ स जातः स मृतो बद्धः स मुक्तः स सुखी पुमान् । स वृद्धः स च विद्वांश्च न स्त्री पुमान् नपुंसकः ॥ ४३ ॥ नानाध्याससमायोगादात्मना जायते शिवे । एक एव स एवात्मा सर्वरूपः सनातनः ॥ ४४ ।। अव्यक्तश्च स च व्यक्तः प्रकृत्या ज्ञायते ध्रुवम् । तस्मात् प्रकृतियोगेन विना न ज्ञायते क्वचित् ॥ ४५ ॥ विना घटत्वयोगेन न प्रत्यक्षो यथा घटः । इतराद् भिद्यमानोऽपि स भेदमुपगच्छति ॥ ४६ ॥ मां विना पुरुषे भेदो न च याति कथञ्चन । न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमैः ॥ ४७ ।। न स्नानैस्तर्पणैर्वापि नच (ज्ञा?दा)नैः कदाचन । प्रकृत्या ज्ञायते ह्यात्मा प्रकृत्या लुप्यते पुमान् ॥ ४८ ॥ प्रकृत्याधिष्ठितं सर्वं प्रकृत्या वञ्चितं जगत् । प्रकृत्या भेदमाप्नोति प्रकृत्याभेदमाप्नुयात् ॥ ४६ ॥ नरस्तु प्रकृतिर्नैव न पुमान् परमेश्वरः । इति ते कथितं तत्वं सर्वसारमनोरमम् ॥ ५० ॥ इति श्रीबृहन्नीलतन्त्रे भैरव भैरवीसंवादे( ताराशतनाम-तत्त्वसा- रनिरूपणं) विंशः पटलः ॥ २० ॥