सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२२ बृहन्नीलतन्त्रम् । कीर्तिः कीर्तिं सदा पातु शान्तिः शान्ति सदावतु । पुष्टिर्मे पातु पुष्टिं च तुष्टिस्तुष्टिं सदावतु ॥ १४ ॥ वैरोचनः सदा पातु शङ्ख च शङ्खपाण्डुरः । पाण्डुरो मे सदा गुह्यं पातु नित्यं च सर्वशः ॥ १५ ॥ पद्मनाभः सदा पातु नाभिं मे दशपत्रिकाम् । असिताङ्गः पातु लिङ्गं नामकः पातु कर्णकौ ॥ १६ ॥ मामकः पातु मे बाहू हस्तौ पातु महेश्वरी । तारी मे पातु सततं पृष्ठं पद्मान्तको मम || १७ ।। पार्श्व मे च सदा पा(तु?तां)यमान्तकवदान्तकौ । चरणो मे सदा पातां विघ्नान्तनरकान्तकौ ॥ १८ ॥ " तारा मे पातु सततं अष्टाङ्गं परमेश्वरी । इतीदं कवचं देवि कथितं मन्मुखोदितम् ॥ १६ ॥ प्रमादात् परमेशानि न प्रकाश्यं कदाचन । योगिनीभिस्तदा हन्यात् स्वयं च वधकारिणी ॥ २० ॥ यदि भाग्यवशाद् देवि लब्धं साधकसत्तमैः । Pitr तदा तस्य महासिद्धिर्जायते देवि निश्चितम् ॥ २१ ।। निषिद्धेभ्यो न दातव्यं न प्रकाश्यं कदाचन । यदि दद्याद् निषिद्धेभ्यो तदा मृत्युमवाप्नुयात् ॥ २२ ॥ 10 दद्यात् शान्ताय शिष्याय तन्त्रमन्त्रयुताय च । गुरुभक्तियुतायैव तत्र सिद्धिरनुत्तमा ॥ २३ ॥ रहस्यं कथितं सर्वमनन्तफलदायकम् । गोप्तव्यं परमेशानि न प्रकाश्यं कदाचन ।। २४ ।। कवचेन विना देवि योऽर्चयेत तारिणीं शिवाम् । तमश्नाति महोग्रा सा योगिनीभिः सुनिश्चितम् ।। २५ ॥ १ 'तारको' ख. पाठः । 6