सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२१ एकोनविंशः पटलः । श्रूयतां परमं गुह्यं कवचं मन्मुखोदितम् । its जपाद्धि सर्वकल्याणं जायते नात्र संशयः ॥ २ अप्रकाश्यं महादेवि तव स्नेहात् प्रकाशितम् । उद्धृतं सारभूतानां सारात् सारतरं परम् ॥ ३ ॥ कवचं धारयेद् यस्तु पठेद् वा भक्तिभावतः । स शिवः स च विद्यशः स च योगी न संशयः ॥ ४ ॥ कवचेन विना देवि योऽर्चयेत् तारिणी पराम् । कल्पकोटिशतेनापि न सिद्धिर्जायते प्रिये ॥ ५ ॥ ब्रह्मविष्णुशिवानां च बीजं रक्षतु मूलकम् । TAR तदेव शक्तिमूलं च लिङ्गं रक्षतु यत्नतः ॥ ६ ॥ मणिपूरं सदा पातु वधूवीजमशेषतः । अनाहतं वर्मबीजं पातु मे सर्वसर्वतः ॥ ७ ॥ अस्त्रादि सर्वदा पातु विशुद्धं कण्ठदेशकम् । नाम शेष हि पातु मे नित्यमाज्ञास्थानं द्विपत्रकम् ॥ ८ ॥ शीर्ष पातु सदा तारा जटा पातु सदाननम् । नीलासरस्वती पातु हृदयं मे सदा पुनः ॥ ६ ॥ मूलाधारं सदा पातु महानीलसरस्वती । अक्षोभ्यः पातु सर्वाङ्गं बृहती पातु भालकम् ॥ १० ॥ उग्रतारा देवता मे शङ्खं रक्षतु सर्वदा । कर्णौ (तु)मे सदा पातु ह्रींबीजं तदशेषतः ॥ ११ ॥ स्तनद्वयं सदा पातु हूंशक्तिर्विघ्नघातकः । रसनां मे सदा पातु लक्ष्मीर्देवी च शाश्वती ॥ १२ ॥ रसनाग्रं सदा पातु सरस्वती प्रयत्नतः । रतिः पातु सदा बीजं प्रीतिर्मे वदनं सदा ॥ १३ ॥