सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१६ बृहन्नीलतन्त्रम् । फलदा त्रिफला शक्ता फलाभरणभूषिता । फकारकूटसर्वाङ्गी फाल्गुनानन्दवर्द्धिनी ॥ १५५ ।। वासुदेवरता विज्ञा विज्ञविज्ञानकारिणी । वीणावती बलाकीर्णा बालपीयूषरोचिका ॥ १५६ ॥ बाला वसुमती विद्या विद्याहारविभूषिता । विद्यावती वैद्यपदप्रीता वैवस्वती बलिः ॥ १५७ ॥ बलिविध्वंसिनी चैव वराङ्गस्था (१००) वरानना । विष्णोर्वक्षःस्थलस्था च वाग्वती विन्ध्यवासिनी ॥ १५८ ॥ भीतिदा भयदा भानोरंशुजालसमप्रभा । भार्गवेज्या भृगोः पूज्या भरद्वारनमस्कृता ॥ १५६ ।। भीतिदा भयसंहत्री भीमाकारा च सुन्दरी । मायावती मानरता मानसंमानतत्परा ॥ १६० ।। माधवानन्ददा माध्वी मदिरामुदितेक्षणा । महोत्सवगुणोपेता महती च महद्गुणा ॥ १६१ ॥ मदिरामोदनिरता मदिरामञ्जने रता । यशोधरी यशोविद्या यशोदानन्दवर्द्धिनी ॥ १६२ ।। यशःकर्पूरधवला यशोदामविभूषिता । यमराजप्रियां योगमार्गानन्दप्रवर्द्धिनी ॥ १६३ ॥ यमस्वसा च यमुना योगमार्गप्रवर्द्धिनी । यादवानन्दकर्त्री च यादवानन्दवर्द्धिनी ॥ १६४ ॥ यज्ञप्रीता यज्ञमयी यज्ञकर्मविभूषिता । रामप्रीता रामरता रामतोषणतत्परा ।। १६५ ।। राज्ञी राजकुलेज्या च राजराजेश्वरी रमा । रमणी रामणी रम्या रामानन्दप्रदायिनी ॥ १६६ ॥ १ 'स्वसा' ख. पाठः।