सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः पटलः । २१५ - नागराजकृततोषा नागराजविभूषिता । नागेश्वरी नागरूढा नागराजकुलेश्वरी ॥ १४३ ॥ नवीनेन्दुकला नान्दी नन्दिकेश्वरवल्लभा । नीरजा नीरजाक्षी च नीरजद्वन्द्वलोचना ॥ १४४ ॥ नीरा नीरभवा वाणी नीरनिर्मलदेहिनी । नागयज्ञोपवीताढ्या नागयज्ञोपवीतिका ॥ १४५ ॥ नागकेसरसंतुष्टा नागकेसरमालिनी । नवीनकेतकीकुन्द-मल्लिकाम्भोजभूषिता ॥ १४६ ।। नायिका नायकप्रीता नायकप्रेमभूषिता । नायकप्रेमसहिता नायकप्रेमभाविता ।। १४७ ॥ नायकानन्दनिलया नायकानन्दकारिणी । नर्मकर्मरता नित्यं नर्मकर्मफलप्रदा ॥ १४८ ॥ नर्मकर्मप्रिया नर्मा नर्मकर्मकृतालया । नर्मप्रीता नर्मरता नर्मध्यानपरायणा ॥ १४६ ॥ पौष्णप्रिया च पौष्पेज्या पुष्पदामविभूषिता । पुण्यदा पूर्णिमा पूर्णा कोटिपुण्यफलप्रदा ॥ १५० ॥ पुराणागमगोप्या च पुराणागमगोपिता । पुराणगोचरा पूर्णा पूर्वा प्रौढा विलासिनी ॥ १५१ ॥ प्रह्लादहृदयाह्लादगेहिनी पुण्यचारिणी । फाल्गुनी फाल्गुनप्रीता फाल्गुनप्रेमधारिणी ॥ १५२ ॥ फाल्गुनप्रेमदा चैव फणिराजविभूषिता । फणिकाञ्ची फणिप्रीता फणिहारविभूषिता ।। १५३ ॥ फणीशकृतसर्वाङ्गभूषणा फणिहारिणी । फणिप्रीता फणिरता फणिकङ्कणधारिणी ॥ १५४ ॥