सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१४ बृहन्नीलतन्त्रम् । तुषारधामतुल्यास्या तुषारांशुसमप्रभा । तुषाराद्रिसुता तार्क्ष्या ताराङ्गी तालसुन्दरी ॥ १३१ ॥ तारस्वरेण सहिता तारस्वरविभूषिता । थकारकूटनिलया थकाराक्षरमालिनी ॥ १३२ ॥ दयावती दीनरता दुःखदारिद्यनाशिनी । दौभाग्यदुःखदलिनी दौर्भाग्यपदनाशिनी ॥ १३३ ॥ दुहिता दीनबन्धुश्च दानवेन्द्रविनाशिनी । दानपात्री दानरता दानसंमानतोषिता ॥ १३४ ॥ दान्त्यादिसेविता दान्ता दया दामोदरप्रिया । दधीचिवरदा तुष्टा दानवेन्द्रविमर्दिनी ।। १३५ ॥ दीर्घनेत्रा दीर्घकचा दीर्घनासा च दीर्घिका । दारिद्यदुःखसंनाशा दारिद्यदुःखनाशिनी ॥ १३६ । दाम्भिका दन्तुरा दम्भा दम्भासुरवरप्रदा । धनधान्यप्रदा धन्या धनेश्वरधनप्रदा ॥ १३७ ॥ धर्मपत्नी धर्मरता धर्माधर्मविनाशिनी' । धर्मिणी धर्मिका धर्म्यां धर्माधर्मविवर्द्धिनी ॥ १३८ ॥ धनेश्वरी धर्मरता धर्मानन्दप्रवर्द्धिनी । धनाध्यक्षा धनप्रीता धनाढ्या धनतोषिता ॥ १३६ ।। धीरा धैर्यवती धिष्ण्या धवलाम्भोजसंनिभा । धरिणी धारिणी धात्री धूरणी धरणी धरा (८००) ॥ १४० ॥ धार्मिका धर्मसहिता धर्मनिन्दकवर्जिता । नवीना नगजा निम्ना निम्ननाभिर्नगेश्वरी ॥ १४१ ॥ नूतनाम्भोजनयना नवीनाम्भोजसुन्दरी | नागरी नगरज्येष्ठा नगराजसुता नगा ॥ १४२ ॥ प्रवर्धिनी' ख. । २ 'सव' ख. पाटः । 9 6 .