सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

S २१२ बृहन्नीलतन्त्रम् । सर्वचक्रेश्वरी सर्वा सर्वमन्त्रमयी शुभा । सहस्रनयनप्राणा सहस्रनयनप्रिया ॥ १०७ ॥ सहस्रशीर्षा सुषमा सदम्भा सर्वभक्षिका । यष्टिका यष्टिचक्रस्था षड्वर्गफलदायिनी ॥ १०८ ॥ षड्विंशपद्ममध्यस्था षड्विंशकुलमध्यगा । हूँकारवर्णनिलया हूँकाराक्षरभूषणा ॥ १०६ ॥ हकारवर्णनिलया हकाराक्षरभूषणा । हारिणी हारवलिता हारहीरकभूषणा ॥ ११० ।। हींकारबीजसहिता हींकारैरुपशोभिता (६००) । कन्दर्पस्य कला कुन्दा कोलिनी कुलदर्पिता ।। १११ ।। केतकीकुसुमप्राणा केतकीकृतभूषणा । केतकीकुसुमासक्ता केतकीपरिभूषिता ॥ ११२ ॥ कर्पूरपूर्णवदना महामाया महेश्वरी । कला केलिः क्रिया कीर्णा कदम्बकुसुमोत्सुका ॥ ११३ ॥ कादम्बिनी करिशुण्डों कुञ्जरेश्वरगामिनी । खर्वा सुखञ्जनयना खञ्जनद्वन्द्वभूषणा ॥ ११४ ॥ खद्योत इव दुर्लक्षा खद्योत इव चञ्चला । महामाया जगद्धात्री गीतवाद्यप्रिया रतिः ॥ ११५ ॥ गणेश्वरी गणेज्या च गुणपूज्या गुणप्रदा । गुणाढ्या गुणसंपन्ना गुणदात्री गुणात्मिका ॥ ११६ ॥ गुर्वी गुरुतरा गौरी गाणपत्यफलप्रदा । महाविद्या महामेधा तुलिनी गणमोहिनी ॥ ११७ ॥ भव्या भवप्रिया भाव्या भावनीया भवात्मिका । घर्घरा घोरवदना घोरदैत्यविनाशिनी ॥ ११८ ॥ १ 'सुसमा' ख. पाठः । २ 'करिगतिः' ख. पाठः । 1