सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः पटलः । २११ गुणगौरवसंपन्ना गुणशीलसमन्विता । रूपयौवनसंपन्ना रूपयौवनशोभिता ॥ १५ ॥ गुणाश्रया गुणरता गुणगौवरसुन्दरी । मदिरामोदमत्ता च ताटङ्कद्वयशोभिता ।। ६६ ॥ वृक्षमूलस्थिता देवी वृक्षशाखोपरिस्थिता । तालमध्याग्रनिलया वृक्षमध्यनिवासिनी ॥ १७ ॥ स्वयम्भूपुष्पसंकाशा स्वयम्भूपुष्पधारिणी । स्वयम्भृकुसुमप्रीता स्वयम्भूपुष्पशोभिनी ॥ १८ ॥ स्वयम्भूपुष्परसिका नना ध्यानवती सुधा । शुक्रप्रिया शुक्ररता शुक्रमञ्जनतत्परा ॥ ६६ ।। पूर्णपर्णा सुपर्णा च निष्पर्णा पापनाशिनी । मदिरामोदसंपन्ना मदिरामोदधारिणी ॥ १०० ।। सर्वाश्रया सर्वगुणा नन्दनन्दनधारिणी । नारीपुष्पसमुद्भूता नारीपुष्पोत्सवात्सवा ॥ १०१ ।। नारीपुष्पसमग्राणा नारीपुष्परता मृगी । सर्वकालोद्भवप्रीता सर्वकालोद्भवोत्सवा ॥ १०२ ॥ चतुर्भुजा दशभुजा अष्टादशभुजा तथा । द्विभुजा षड्भुजा प्रीता रक्तपङ्कजशोभिता ।। १०३ ॥ कौबेरी कौरवी कोया कुरुकुल्ला कपालिनी । सुदीर्घकदलीजङ्घा रम्भोरू रामवल्लभा ॥ १०४ ।। निशाचरी निशामूर्तिर्निशाचन्द्रसमप्रभा । चान्द्री चान्द्रकला चन्द्रा चारुचन्द्रनिभानना ॥ १०५ ।। (श्रो स्रो) तस्वती स्रुतिमती सर्वदुर्गतिनाशिनी । सर्वाधारा सर्वमयी सर्वानन्दस्वरूपिणी ॥ १०६ ।। 9 शुक्र ख. पाटः । २ नन्दकन्दल ख. पाठः ।