सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१० बृहन्नीलतन्त्रम् । रेवती रमणी चित्रा चित्राम्बरविभूषणा । सीता वीणावती चैव यशोदा विजया प्रिया ॥ ८३ ॥ नवपुष्पसमुद्भूता नवपुष्पोत्सवोत्सवा । नवपुष्पस्रजामाला माल्यभूषणभूषिता || ८४ ॥ नवपुष्पसमप्राणा नवपुष्पोत्सवप्रिया । प्रेतमण्डलमध्यस्था सर्वाङ्गसुन्दरी शिवा ॥ ८५ ॥ नवपुष्पात्मिका षष्ठी पुष्पस्तबकमण्डला । नवपुष्पगुणोपेता श्मशानभैरवप्रिया ॥ ८६ ॥ कुलशास्त्रप्रदीपा च कुलमार्गप्रवर्द्धिनी । श्मशानभैरवी काली भैरवी भैरवप्रिया ॥ ८७ ॥ आनन्दभैरवी ध्येया भैरवी कुरुभैरवी । महाभैरवसंप्रीता भैरवीकुलमोहिनी ॥ ८८ ॥ श्रीविद्याभैरवी नीतिभैरवी गुणभैरवी । संमोहभैरवी पुष्टि भैरवी तुष्टिभैरवी ।। ८६ ॥ संहारभैरवी सृष्टि भैरवी स्थितिभैरवी । आनन्दभैरवी वीरा सुन्दरी स्थितिसुन्दरी ॥ १० ॥ गुणानन्दस्वरूपा च सुन्दरी कालरूपिणी । श्रीमायासुन्दरी सौम्यसुन्दरी लोकसुन्दरी ॥ ११ ॥ श्रीविद्यामोहिनी बुद्धिर्महाबुद्धिस्वरूपिणी । मल्लिका हाररसिका हार()लम्बनसुन्दरी ॥ २ ॥ नीलपङ्कजवर्णा (५००) च नागकेसरभूषिता । जपाकुसुमसङ्काशा जपाकुसुमशोभिता ।। ६३ ॥ प्रिया प्रियङ्करी विष्णोदानवेन्द्रविनाशिनी । ज्ञानेश्वरी ज्ञानदात्री ज्ञानानन्दप्रदायिनी ।। ६४ ॥ १ 'भूषिता' ख. । २ 'शरीर' ख. पाठः ।