सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०६ बृहन्नीलतन्त्रम् । ललजिह्वा सरोजाक्षी मुण्ड'स्रपरिभूषिता । सर्वानन्दमयी सर्वा सर्वानन्दस्वरूपिणी ॥ ३५ ॥ धृतिर्मेधा तथा लक्ष्मीः श्रद्धा पन्नगगामिनी । रुक्मिणी जानकी दुर्गाम्बिका सत्यवती रतिः ॥ ३६ ॥ कामाख्या कामदा नन्दा नारसिंही सरस्वती । महादेवरता चण्डी चण्डदोर्दण्डखण्डिनी ॥ ३७ ।। दीर्घकेशी सुकेशी च पिङ्गकेशी महाकचा । भवानी भवपत्नी (१००) च भवभीतिहरा सती ॥ ३८ ॥ पौरन्दरी तथा विष्णोर्जाया माहेश्वरी तथा । सर्वेषां जननी विद्या'चार्वङ्गी दैत्यनाशिनी ॥ ३६ ॥ सर्व रूपा महेशानी कामिनी वरवर्णिनी । महाविद्या महामाया महामेधा महोत्सवा ॥ ४० ॥ विरूपा विश्वरूपा च मृडानी मृडवल्लभा । कोटिचन्द्रप्रतीकाशा शतसूर्यप्रकाशिनी ॥ ४१ ॥ जह्नुकन्या महोग्रा च पार्वती विश्वमोहिनी । कामरूपा महेशानी नित्योत्साहा मनस्विनी ॥ ४२ ॥ वैकुण्ठनाथपत्नी च तथा शङ्करमोहिनी । काश्यपी कमला कृष्णा कृष्णरूपा च कालिनी ॥ ४३ ॥ माहेश्वरी वृषारूढा सर्वविस्मयकारिणी । मान्या मानवती शुद्धा कन्या हिमगिरेस्तथा ॥ ४४ ।। अपर्णा पद्मपत्राक्षी नागयज्ञोपवीतिनी । महाशङ्खधरा कान्ता कमनीया नगात्मजा ॥ ४५ ॥ ब्रह्माणी वैष्णवी शम्भोर्जाया गङ्गा जलेश्वरी । भागीरथी मनोबुर्द्धिनित्या विद्यामयी तथा ॥ ४६ ॥ १ 'मुक्का' क. । २ 'शची' ख. । ३ 'नित्या' ख. । ४ 'घोररूपा' ख. । ५ 'मृत्यु ख. पाठः।