सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः पटलः । २०५ -- ' २८ ॥ स्रनाम) स्तोत्रस्य, अक्षोभ्य ऋषिः, बृहती-उष्णिक् छन्दः, श्रीउग्र- तारा श्रीमदेकजटा श्रीनीलसरस्वती देवता, पुरुषार्थचतुष्टयसि- द्ध्यर्थे विनियोगः ॥ तारा रात्रिर्महारात्रिर्कालरात्रिमहामतिः' । कालिका कामदा माया महामाया महास्मृतिः ॥ २६ ॥ महादानरता यज्ञा यज्ञोत्सवविभूषिता । चन्द्रवक्त्रा' चकोराक्षी चारुनेत्रा सुलोचना ॥ २७ ॥ios त्रिनेत्रा महती देवी कुरङ्गाक्षी मनोरमा । ब्राह्मी नारायणी ज्योत्स्ना चारुकेशी सुमूर्धजा ! वाराही वारुणी विद्या महाविद्या महेश्वरी । सिद्धा कुञ्चितकेशा च महायज्ञस्वरूपिणी ॥ २६ ॥pur गौरी चम्पकवर्णा च कृशाङ्गी शिवमोहिनी । मगर सर्वानन्दस्वरूपा च सर्वशङ्कैर्कतारिणी ॥ ३० ॥ विद्यानन्दमयी नन्दा भद्रकाली स्वरूपिणी । Se गायत्री सुचरित्रा च कौलव्रतपरायणा ।। ३१ ।। हिरण्यगर्भा भूगर्भा महागर्भा सुलोचनी । हिमवत्तनया दिव्या महामेघस्वरूपिणी ॥ ३२ ॥ जगन्माता जगद्धात्री जगतामुपकारिणी । ऐन्द्री सौम्या तथा घोरा" वारुणी माधवीं तथा ॥ ३३ ॥ आग्नेयी वैनतेयी' च ऐशानी चण्डिकात्मिका । सुमेरुतनया नित्या सर्वेषामुपकारिणी ॥ ३४ ॥ १ कपालिनी' ख. पाठः । २ 'महोत्सवा' ख. । ३ ख. । ५ 'पिङ्गा' ख. । ६ 'संकट' ख. । ७ ख. । ६ नैर्ऋती चैव' ख. पाठः । वज्रा , क. ।' हरा याम्या' ख. । ८ 6 वायवी . .