सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०४ बृहन्नीलतन्त्रम् । महादेवं परिष्वज्य प्राह गद्गदया गिरा । सदा देहस्वरूपाहं देही त्वं परमेश्वर ॥ १७ ॥ तथापि वञ्चनां कर्तुं मामित्थं वदसि प्रियम् । महादेवः पुनः प्राह भैरवि प्राणवल्लभे ॥ १८ ॥ नाम्नां सहस्रं तारायाः श्रोतुमिच्छस्यशेषतः । श्रीदेव्युवाच । न श्रुतं परमेशान तारानामसहस्रकम् । कथयस्व महाभाग सत्यं परमसुन्दरम् ॥ १६ ॥ (श्रीपार्वत्युवाच ।) कथमीशान सर्वज्ञ लभन्ते सिद्धिमुत्तमाम् । साधकाः सर्वदा येन तन्मे कथय सुन्दर ॥ २० ॥ यस्मात् परतरं नास्ति स्तोत्रं तन्त्रेषु निश्चितम् । सर्वपापहरं दिव्यं सर्वापद्विनिवारकम् ॥ २१ ।। सर्वज्ञानकरं पुण्यं सर्वमङ्गलसंयुतम् । पुरश्चर्याशतैस्तुल्यं स्तोत्रं सर्वप्रियङ्करम् ॥ २२ ॥ वश्यप्रदं मारणदमुच्चाटनप्रदं महत् । नाम्नां सहस्रं तारायाः कथयस्व सुरेश्वर ॥ २३ ।। श्रीमहादेव उवाच । नाम्नां सहस्रं तारायाः स्तोत्रपाठाद् भविष्यति । नाम्नां सहस्रं तारायाः कथयिष्याम्यशेषतः ॥ २४ ॥ शृणु देवि सदा भक्त्या भक्तानां परमं हितम् । विना पूजोपहारेण विना जा(पे?प्ये)न यत् फलम् ॥ २५ ॥ तत् फलं सकलं देवि कथयिष्यामि तच्छृणु । डों अ(स्याः स्य) श्रीतारादेव्या भक्तिकुलसर्व(स्व) नाम्नः (सह- P