अष्टादशः पटलः । २०३ अकथ्यं परमेशानि अकथ्यं चैव सुन्दरि । क्षमस्व वरदे देवि यदि स्नेहोऽस्ति मां प्रति ॥ ५ ॥ सर्वस्वं शृणु हे देवि सर्वागमविदां वरे' । धनसारं महादेवि गोप्तव्यं परमेश्वरि ॥ ६ ॥ आयुर्गोप्यं गृहच्छिद्रं गोप्यं न पापभाग् भवेत् । सुगोप्यं परमेशानि गोपनात् सिद्धिमश्नुते ॥ ७ ॥ प्रकाशात् कार्यहानिश्च प्रकाशात् प्रलयं भवेत् ।
न प्रकाश्यं कदाचन ॥ ८ ॥
इति देववचः श्रुत्वा देवी परमसुन्दरी । विस्मिता परमेशानी विषमा तत्र जायते ॥ ६ ॥ शृणु हे परमेशान कृपासागरपारग । तव स्नेहो महादेव मयि नास्त्यत्र निश्चितम् ॥ १० ॥ भद्रं भद्रं महादेव इति कृत्वा महेश्वरी । विमुखीभूय देवेशी तत्रास्ते शैलजा शुभा ॥ ११ ॥ विलोक्य विमुखी देवी महादेवो महेश्वरः । ग्रहस्य परमेशानीं परिष्वज्य प्रियां कथाम् ॥ १२ ॥ कथयामास तत्रैव महादेव्यै महेश्वरि । मम सर्वस्वरूपा त्वं जानीहि नगनन्दिनि ॥ १३ ॥ त्वां विनाहं महादेवि पूर्वोक्तशवरूपवान् । क्षमस्व परमानन्दे क्षमस्व नगनन्दिनि ॥ १४ ॥ यथा प्राणो महेशानि देहे तिष्ठति सुन्दरि । तथा त्वं जगतामाद्ये चरणे पतितोऽस्म्यहम् ॥ १५ ॥ इति मत्वा महादेवि रक्ष मां तव किङ्करम् । ततो देवी महेशानी त्रैलोक्यमोहिनी शिवा ॥ १६ ॥ १ 'शिवे' ख. पाठः ।