सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०२ बृहन्नलितन्त्रम् । इष्टपूजां विना लिङ्गनिर्माल्यं च निषिध्यते । इति श्रीबृहन्नीलतन्त्रे भैरव भैरवीसंवादे (कालीध्यानादिपूजा- कुण्डमेखलायोनिनिर्णय-अग्निकार्यादिनिरूपणं) सप्तदशः पटलः ॥ १७ ॥ अथ अष्टादशः पटलः । +--- श्रीदेव्युवाच । दवेदवे महादेव सृष्टिस्थित्यन्तकारक । प्रसङ्गेन महादेव्या विस्तरं कथितं मयि ॥ १ ॥ देव्या नीलसरस्वत्याः सहस्रं परमेश्वर । नाम्नां श्रोतुं महेशान प्रसादः क्रियतां मयि । कथयस्व महादेव यद्यहं तव वल्लभा ॥ २ ॥ श्रीभैरव उवाच । साधु पृष्टं महादेवि सर्वतन्त्रेषु गोपितम् । नाम्नां सहस्रं तारायाः कथितुं नैव शक्यते ॥ ३ ॥ प्रकाशात् सिद्धिहानिः स्यात् श्रिया च परिहीयते । प्रकाशयति यो मोहात् षण्मासाद् मृत्युमाप्नुयात् ॥ ४ ॥