सप्तदशः पटलः । १६६ तद्वह्नि रक्षयेद् धीमान् यथाशक्ति विधानतः । न्युब्जेन पाणिना देवि होमयेत् सुरवन्दिते ॥ ११३ ।। उत्तानेनैव हस्तेन यदि होमं करोति च । तदा तज्जनितं पुण्यं न भवेत् परमेश्वरि ॥ ११४ ॥ इति ते कथितं दिव्यं कुएडादीनां निरूपणम् । प्रयत्नात् परमेशानि कर्तव्यं होमकर्मणिं ॥ ११५ ॥ अथ वक्ष्ये महेशानि सावधानावधारय । माघे मासि सिते पक्षे सप्तमी या तिथिर्भवेत् ॥ ११६ ॥ तस्यां रात्रौ महादेवीं पूजयेत् परमेश्वरीम् । चतुर्भुजां महारौद्रीं श्मशानालयवासिनीम् ॥ ११७ ॥ मुण्डाभयखङ्गवरान् दधतीं परमेश्वरीम् । मुण्डमालासमाकीर्णा लोचनत्रयसंयुताम् ॥ ११८ ।। गते तु प्रथमे यामे तृतीयप्रहरावधि । पूजयेत् परमेशानी महाविभवविस्तरैः ॥ ११६ ॥ पूर्वोक्तपूजया देवि पूजयेत् कालरात्रिकाम् । सहस्रस्य प्रमाणेन जपं कुर्यात् शुचिस्मिते ॥ १२० ॥ होमयेत् परमेशानि पूर्वोक्तेन महेश्वरि नैवेद्यं परमं देवि भ्रष्टद्रव्यादिकं प्रिये ॥ १२१ ।। दद्यात् प्रियतरं वस्तु महामायाप्रियंकरम् । अकुर्वन् निरयं याति सत्यं सत्यं महेश्वरि ॥ १२२ ॥ अथ ते कथयिष्यामि सन्ध्योपासनकं विधिम् । आचम्य प्राङ्मुखो भूत्वा दिवसे परमेश्वरि ॥ १२३ ॥ रात्रौ उदङ्मुखः कुर्याद् आह्निकं प्रियमुत्तमम् । अन्येषां पापराशीनां नाशकं विद्धि पार्वति ॥ १२४ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२२४
दिखावट