सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६८ बृहन्नीलतन्त्रम् । स्रुवेण परमेशानि हृदन्तेन महेश्वरि । तत्पात्रादाज्यमानीय हुनेद्वह्नौ महेश्वरि ॥ १०१ ॥ अग्नये च महेशानि सोमाय च ततः परम् । अग्नीषोमपदौ डेन्तौ वह्निजायावधिः प्रिये ॥ १०२ ॥ वामदक्षिणमध्यात् तु गृहणीयाद् आज्यमुत्तमम् । अग्नये स्विष्टकृते स्वाहा हुनेत् सुरगणार्चिते ॥ १०३ ॥ मायाबीजं महेशानि हृदन्तेन महेश्वरि । गर्भाधानादिकं कर्म कल्पयामि महेश्वरि ॥ १०४ ॥ सप्तसप्ताहुतीर्दद्यादन्येषां परमेश्वरि । विवाहान्तं कर्मगणं प्रोच्य संस्कारमाचरेत् ॥ १०५ ॥ तस्मिन्नग्नौ महेशानि देवीं संपूजयेन्नरः । तद्बह्वेरात्मना चैक्यं विभाव्य परिकल्पयेत् ॥ १०६ ॥ ततश्च मूलमन्त्रेण जुहुयात् षोडशाहुतीः । सतिलैश्च त्रिमध्वक्तैः सरक्तैः करवीरकैः ॥ १०७ ।। अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तथा । जुहुयाद् मूलमन्त्रेण महादेव्यै महेश्वरि ॥ १०८ ।। पृथक् कृत्वा महेशानि हुनेदावरणादिकम् । प्रणवं पूर्वमुच्चार्य अग्नये चैतदेव हि ॥ १०६ ॥ पृथिव्यै चैव महते स्वाहान्तोऽयं मनुः स्मृतः । भुवश्च वायवे चैव अन्तरिक्षाय चैव हि ॥ ११० ॥ दिवे चैव महेशानि वह्निजायावधिर्मनुः । स्वर्गाय चैव सूर्याय तथा चन्द्रमसे प्रिये ।। १११ ॥ नक्षत्रेभ्यो महेशानि वह्विजायावधिर्मनुः । तदन्ते महतीं पूर्वा (जां) कुर्यात् चैव वरानने ॥ ११२ ॥