सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः पटलः । १६७ हेमालङ्कारसंयुक्तं हेमकुण्डलमण्डितम् । रक्ताम्भोरुहमध्यस्थं स्वस्तिकासनसंस्थितम् ॥ ८६ ॥ पृष्ठदेशसमालम्बि-सौवर्णधृतपात्रकम् । वामैस्त्रिभिर्बाहुभिश्च दधानं रक्तवाससम् ॥ १० ॥ सदा शब्दायमानं तु एधमानं स्वतेजसा । तोमरं तालवृन्तं च सौवर्णघृतपात्रकम् ।। ११ ॥ व्यावृत्तताम्रवदनं सप्तजिह्वासमाकुलम् । niroin एवं ध्यायेद् महावह्निं चतुर्वर्गफलप्रदम् ॥ १२ ॥ सप्त जिह्वाः प्रपूज्याथ पूर्वादिदिक्षु सुन्दरि । ब्राह्म्याद्याः पूजयेद् देवि स्वकर्मसिद्धये प्रिये ॥ १३ ॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । 0 वाराही च तथेन्द्राणी चामुण्डा चैव सुन्दरि ॥ ६ ॥ महालक्ष्मीर्महेशानि पूजयेत परमेश्वरि । बहिर्देशे पुनर्लक्ष्मीस्तथा चैव सरस्वती ॥ ६५ ।। रतिः प्रीतिश्च कीर्तिश्च शान्तिः पुष्टिश्च सुन्दरि । तुष्टिश्चैव महेशानि बहिर्देशे प्रपूजयेत् ॥ ६ ॥ मेखलासु महेशानि ब्रह्माणं पूजयेत् सुधीः । मेखलासु च सर्वासु वेष्टयेद् दर्भसंकुलैः ॥ १७ ॥ त्रिपंक्त्याचरितं कुण्डं ततो व्याहृतिभिर्हुनेत् । त्रिः प्रताप्य महेशानि स्रुवं च प्रोक्षयेज्जलैः ॥ १८ ॥ वामदक्षिणहस्ताभ्यां पुनः प्रताप्य सुन्दरि । दक्षिणे परमेशानि स्थापयेच्च स्रुवस्रुचौ ॥ १६ ॥ अस्त्रमन्त्रेण देवेशि आज्यपात्रस्य प्रोक्षणम् । ततः पवित्रं तस्मिन् वै क्षिप्वा वह्नौ च निक्षिपेत् ॥ १०० ॥