92 बृहन्नीलतन्त्रम् । ततस्तु ज्वालयेद् वह्नि चिन्मन्त्रेण महेश्वरि । चिन्मन्त्रं परमेशानि शृणुष्वैकमनाः प्रिये ॥ ७६ ॥ "चित् पिङ्गल हन हन दह दह पच पच सर्वज्ञाज्ञापय स्वाहा । वहन्यङ्गे परमेशानि न्यासं कुर्याद् वरानने । सहस्रार्चिषे हृदयाय नमोऽन्तं न्यासमुत्तमम् ॥ ७७ ॥ स्वस्तिपूर्णाय शिरसे स्वाहान्तोऽयं मनुः स्मृतः । उत्तिष्ठ पुरुषायेति शिखायै वषडित्यपि || ७८ ।। धूमव्यापिने कवचाय हुमित्येव सुन्दरि । सप्तजिह्वाय नेत्रत्रयाय वौषडिति प्रिये ॥ ७९ ॥ धनुर्धराय अस्त्राय फडित्यङ्गानि संन्यसेत् । आवाहनस्य मन्त्रं वै शृणु हे नगनन्दिनि ॥ ८० ॥ प्रणवं पूर्वमुद्धृत्य वैश्वानर ततः परम् । जातवेद लोहिताक्ष इहावह ततः परम् ॥ ८२ ॥ सर्वकर्माणि साधय वह्विजायावधिर्मनुः । इत्यनेन च संपूज्य ध्यायेद् वह्निं समाहितः ॥ ८३ ।। ध्यानं शृणु महेशानि ध्यानात् सार्वज्ञकारकम् । बन्धूकपुष्पसंकाशं सुतप्तकनकप्रभम् ॥ ८४ ॥ पद्महस्तं महाबाहुं बदनद्वयशोभितम् । सप्तच्छन्दोमयकरं वसतित्र(य)विग्रहम् ॥ ८५ ॥ त्रिधा ज्ञात्वा त्रिपादार्थ हव्यकव्यविवाहनम् । ब्रह्माध्वर्युद्गातहोतृ-चतुःशृङ्गविराजितम् ॥ ८६ ॥ पञ्चरात्रं पाशुपतं देवानां तु महामतम् । बौद्धं वैदिकमित्येतत् षट्पिङ्गलविलोचनम् ॥ ८७ ॥ वेदार्थचतुरश्रोत्रं स्तोत्रशस्त्रमयध्वनिम् । रसातलजटाबद्ध-मणिकोटरभास्करम् ॥ ८८ ॥ - M
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२२१
दिखावट