सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः पटलः । विलेपनं कलारूपकम्पनं तदनन्तरम् । त्रिसूत्रीकरणं पश्चाद् हृदयेनार्चनं भवेत् ॥ ६४ ॥ अस्त्रेण वज्रीकरणं हृन्मत्रेण जलैः शुभैः । योनिकुण्डानि देवेशि संस्कुर्यात् साधकोत्तमः ॥ ३५ ॥ तस्मिन् कुण्डे महेशानि रेखात्रयं समाचरेत् । । प्रागग्रा उदगग्रा वा तिस्रो रेखा लिखेत् ततः ॥ ६६ ॥ प्रागग्राणां स्मृता देवा मुकुन्देशपुरन्दराः । रेखाणामुदगग्राणां ब्रह्मवैवस्वतेन्दवः ॥ ६७ ।। अथवा त्रिकोणवृत्तं चतुरस्रं लिखेत् ततः । तत्र वह्वेर्योगपीठमर्चयेत् प्राणवल्लभे ॥ ६८ ।। वामा ज्येष्ठा चं रौद्री च अम्बिका शक्तयः क्रमात् । ततो देवि महाभागे ताराकुण्डं प्रपूजयेत् ॥ ६६ ॥ तन्मध्ये परमेशानी नीलां वागीश्वरीं यजेत् । ततश्च श्रोत्रियो वह्निं तद्वीजनैव चोद्धरेत् ॥ ७० ॥ हूँफटकारेण देवेशि क्रव्यादेभ्यस्ततः परम् । वह्विजायावधिर्मन्त्रं वह्नेः सं(त्य ते)जनं जपेत् ।। ७१ ।। तमग्निं शोधयेत् तत्र धेनुमुद्रावगुण्ठनम् । वारुणेनैव मन्त्रेण अमृतीकरणं मतम् ॥ ७२ ॥ कराभ्यां च समुद्धृत्य भ्रामयेद् उपरि त्रिधा । शिवस्य बीजबुद्ध्या तु तद्योनौ परमेश्वरि ॥ ७३ ।। ह्रींबीजमादौ संजप्य वह्निमूर्तिं च डेयुताम् । इत्यभ्यर्च्य महादेवि इडयाकृष्य सुन्दरि ॥ ७४ ॥ ततः कुम्भकयोगेन कूर्चबीजं समुच्चरन् । वह्वेश्चैतन्यापादान्ते डेयुते परमेश्वरि ।। ७५ ॥