सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । योन्यग्रं वर्धयेद् विद्वान् नाभिर्वृत्ताकृतिर्भवेत् । हस्तमात्रे सहस्रं तु द्विहस्ते चायुतं स्मृतम् ॥ ५२ ॥ चतुर्हस्ते लक्षमात्रं षट्करे दशलक्षकम् । दशहस्ते महेशानि कोटिहोमं समाचरेत् ॥ ५३ ॥ दशहस्तात् परं नास्ति तत्रेऽस्मिन् परमेश्वरि । खाताधिके भवेद् रोगी हीने धेनुधनक्षयः ।। ५४ ॥ वक्रकुण्डे तु संतापो बन्धुहा हीनमेखले । मेखलारहिते शोकोऽभ्यधिके वित्तसंक्षयः ॥ ५५ ॥ भार्याविनाशकं कुण्डं योन्याः शून्यं महेश्वरि । अपत्यध्वंसनं कुण्डं यदि तत् कण्ठवर्जितम् ॥ ५६ ॥ उच्चाटः स्फुटिते छिद्रसंकुले वा मृतिर्भवेत् । तस्माद् हि परमेशानि ज्ञात्वा कुण्डं प्रसाधयेत् ॥ ५७ ॥ देवीप्रीतिकरं कुण्डं सर्वदेवनमस्कृतम् । मन्त्रसिद्धिकरं कुण्डं सर्वसारस्वतप्रदम् ॥ ५८ ।। अथ वक्ष्ये महेशानि ह्यग्निकार्यं सुशोभनम् । यस्मिन् हुत्वा वरारोहे सर्वविद्यामयो भवेत् ॥ ५६ ॥ मण्डपस्योत्तरे भागे कुण्डान् कृत्वा यथोदितान् । नित्यनैमित्तिककाम्यान् संस्कारं तत्र चाचरेत् ॥ ६० ।। अष्टादश स्युः संस्काराः कुण्डानां तत्रवर्त्मना । वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं चरेत् ॥ ६१ ।। तेनैव ताडनं दर्भैर्वमणाभ्युक्षणं मतम् । अस्त्रेण खननोद्धारौ ह्रन्मन्त्रेण प्रपूरणम् ॥ ६२ ॥ समीकरणमस्रेण सेचनं वर्मणा मतम् । कुट्टनं हेतिमन्त्रेण वर्ममन्त्रेण मार्जनम् ॥ ६३ ॥