सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः पटलः । १६३ वेदाग्निनयनोत्सेधविस्तारा हस्तमात्रके । अन्तर्नवाङ्गुलोत्सेधा विस्तृता तु नवाङ्गुला ॥ ४० ॥ सर्वत्रैवंविधं क्षेत्रं कुण्डानामनुरूपतः । एकाङ्गुलं परित्यज्य कुण्डान्तर्मेखला भवेत् ॥ ४१ ॥ एकहस्ते तु कुण्डे वे ह्यन्यत् कुण्डे विवर्जयेत् । अर्द्धाङ्गुलप्रमाणे तु कुण्डं कुर्याच्च मन्त्रवित् ॥ ४२ ॥ सात्त्विकी मेखला पूर्वा द्वितीया राजसी तथा । तृतीया तामसी प्रोक्ता मेखलानां तु निर्णयः ॥ ४३ ॥ इति ते कथितं दिव्यं मेखलानिर्णयं तथा । अथ वक्ष्ये महेशानि योनिनिर्णयमुत्तमम् ॥ ४४ ॥ प्रथमे योनि कुण्डे तु' मेखलान्तरपूर्वतः । कुर्याद् गजोष्ठवर्णं तु कुण्डवित् सर्वलक्षणम् ॥ ४५ ॥ योनिः षडङ्गुला प्रोक्ता चतुरङ्गुलविस्तृता । उन्नता व्यङ्गुला प्रोक्ता कुण्डे हस्तमिते बुधैः ॥ ४६ ।। नाभि कुण्डोदरे' कुर्यात् सुधीरष्टदलाब्जवत् । तत्तत्कुण्डानुरूपां वा नाभिं तत्र विचक्षणः ॥ ४७ ॥ नेत्रवेदाङ्गुलोत्सेधविस्तारा नाभिरत्र वै । द्विहस्तादिषु कुण्डेषु योनिं संवर्धयेत् क्रमात् ॥ ४८ ॥ एकैकाङ्गुलिमानेन तथा नाभिं च वर्धयेत् । कुण्डस्थले बहिःस्थानं स्थलं विद्धि महेश्वरि ॥ ४६ ॥ चतुरस्रस्थलारब्धं नालमध्ये सरन्ध्रकम् । स्थूलमूला च सूक्ष्माग्रा उन्नतिः स्याद् मनोहरा ॥ ५० ॥ बहिःस्थले मेखलायाः स्थानमारभ्य' कारयेत् । योनिमध्ये बिलं कुर्यात् तद्बाह्ये ग्राहिसंज्ञकम् ॥ ५१ ॥ १ 'प्रथमे मेखले योनि' ख. पाठः। २ 'कुण्डादधः' ख. पारः । ३ 'बहिः स्थमे खलाबाह्यस्थानमा' ख. पाटः । २ ?