१६२ बृहन्नीलतन्त्रम् । पौरुषेण प्रमाणेन खनेत् सुरगणार्चिते । वास्तुपूर्वदिशि महादेवि कुण्डं प्रकल्पयेत् ॥ २८ ॥ ऐशान्यां वा महेशानि कुण्डं कुर्याद् यथाविधि । सप्तहस्तं नव तथा पञ्च पञ्च विभेदतः ॥ २६ ॥ चतुरस्रं चतुर्द्वारं निश्छिद्रं तु प्रकल्पयेत् । संस्तरेद् दर्भकेणैव सूत्रेणैव प्रकल्पयेत् ॥ ३० ॥ एककुण्डमिते नान्यत् पञ्चहस्तगृहं भवेत् । चतुरस्र महेशानि सर्वकर्माणि साधयेत् ॥ ३१ ॥ प्रमाणं शृणु देवेशि येन सिद्धो भवेद् मनुः । कर्तुदक्षिणहस्तस्य मध्यमाङ्गुलिपर्वणः ॥ ३२ ॥ मध्यस्य दीर्घमानेन मानाङ्गुलिनिरूपणम् । अष्टभिश्च यवै(र्देवि) एकाङ्गुलमिति स्मृतम् ॥ ३३ ॥ प्रत्येकसूत्रमास्फाल्य तन्मध्ये साधयेत् सुधीः । भागत्रयेण तन्मध्ये विधाय चैव पार्वति ॥ ३४ ॥ दिशोर्मत्स्ययुगं कुर्यात् (तस्यान्या?तन्मत्स्या)दनयोः क्वचित् । दक्षिणोत्तरगं सूत्रं यथानालं निपातयेत् ॥ ३५ ॥ तत्सूत्राग्रेषु संस्थाप्य कोणेषु मकरांल्लिखेत् । कोणस्य मकरस्थानि दिक्षु सूत्राणि पातयेत् ।। ३६ ॥ एवं कृते चतुष्कोष्ठं चतुरस्रं च जायते । एतत् कुण्डं महेशानि चतुरस्रं सुलक्षणम् ।। ३७ ॥ कुण्डविस्तारमानं हि तादृशं परमेश्वरि । तन्मानं परमेशानि तादृग्रूपा च मेखला ॥ ३८ ॥ पञ्चत्रिमेखलं कुर्यात् तत्रवित् साधकोत्तमः । मेखलात्रितयं चैव महाहोमे महेश्वरि ॥ ३९ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२१७
दिखावट