सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः पटलः । १६१ त्रैलोक्यमोहिनीं देवीं मालां दिव्यां सुबिभ्रतीम् । एवं ध्यायेद् महाकाली प्रसन्नवदनां शुभाम् ॥ १६ ॥ मण्डपं परमेशानि निर्माय विधिवत् शिवे । चतुरस्रं चतुर्द्वारं मुकुटाङ्कितमूर्द्धजाम् ॥ १७ ॥ परमे मण्डपे देवि पूजयेत् परमेश्वरीम् । विविधैः पूजयेद् द्रव्यैः पुष्पधूपासनादिभिः ॥ १८ ।। नैवेद्यं परमं दद्याद् नानाद्रव्योपशोभितम् । पक्वान्नं परमं दिव्यं नानारससमन्वितम् ॥ १६ ॥ सन्देशं परमं कृत्यं(हृद्यं) सुस्वादु सुमनोहरम् । अपर्याप्तं महेशानि नाभिमात्रप्रमाणतः ॥ २० ।। प्रहरे प्रहरे पूजां जपं चैव समाचरेत् । नानाविधैश्च बलिभिः पूजयेत् कालिकां शिवाम् ॥ २१ ॥ होमयेत् परमेशानि पायसाज्येन सुन्दरीम् । बिल्वपत्रैर्महेशानि होमयेच्च महेश्वरीम् ॥ २२ ॥ स्तवं पठेद् महेशानि (भ भु)क्तिमुक्तिप्रदायकम् । ततो विसर्जयेद् धीमान् महादेवीं मनोहराम् ॥ २३ ॥ इति ते कथितं दिव्यं कालिकायाः प्रपूजनम् । यः करोति महादेवि स मोक्षं प्राप्नुयाद् ध्रुवम् ॥ २४ ॥ इह लोके सुखं देवि भवेद् नीलाविधौ प्रिये । अथ वक्ष्ये महादेवि कुण्डानां निर्णयं तथा ॥ २५ ॥ होमार्थं परमेशानि सरस्वत्याः शिवप्रिये । होमस्यैव विधिं वक्ष्ये कुण्डेन सहितं (विभो शिवे) ॥ २६ ।। आदौ भूमि परीक्षेत वास्तुलक्षणतत्परः । शल्योद्धारं प्रकुर्वीत चाथवा परमेश्वरि ॥ २७ ॥