सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६० बृहन्नीलतन्त्रम् । षण्मासाभ्यन्तरे देवि सर्वज्ञत्वं समाप्नुयात् । इति सत्यं महादेवि संशयो नास्ति कश्चन ॥ ४ ॥ चन्द्रसूर्यौ यदि वृथा तदा निष्फलभाग् भवेत् । रहस्यं शृणु चार्वङ्गि महाकाल्याः प्रियङ्करम् ॥ ५ ॥ येन सिद्ध्यति देवेशि साधको वीतमत्सरः । कार्तिके मासि देवेशि अमावास्या च या तिथि: ।। ६ ॥ तस्यां रात्रौ विशेषेण पूजयेत् कालिकां पराम् । प्रथमे प्रहरे देव्याः स्नानाय परमेश्वरीम् ॥ ७ ॥ समाराध्य महेशानि संकल्पस्तदनन्तरम् । तत्समीपे (मण्डपे तु) पद्मं निर्माय सुन्दीर ॥ ८ ॥ अथवा सर्वतोभद्रं निर्माय मण्डलं शुभम् । भद्रासने महादेवी संस्थाप्य परमेश्वरि ॥ ६ ॥ स्नपयेद् दर्पणे शुभ्रे हरिद्रामलकेन च । तैलेन परमेशानि गन्धयुक्तेन सुन्दरि ॥ १० ॥ शीतलैः सुजलैर्देवीं कालिकां स्नपयेद् मुदा । एवमुक्तप्रकारैश्च नीलावत् पूजयेत् सुधीः ॥ ११ ॥ ध्यानं शृणु वरारोहे सारस्वतप्रदायकम् । येन ध्यानेन देवेशि साधयेत् सिद्धिमुत्तमाम् ॥ १२ ॥ मेघवर्णां स्मितमुखींं मुक्तकेशीं दिगम्बराम् । अट्टाहासवदनां स्मेरा(रुण?नन)सरोरुहाम् ॥ १३ ॥ त्रिनेत्रां वरदां नित्यां महादेवोपरि स्थिताम् । कर्णालम्बितबालाढ्यां मुण्डमालाविभूषिताम् ॥ १४ ॥ वामोर्ध्वे कर्त्रिकां दिव्यां तद(र्धे?धो) मुण्डधारिणीम् । अभयं वरदं हस्ते विभ्रती दक्षिणेन च ॥ १५ ।।