सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः पटलः । १८६ नानाद्रव्ययुतं भद्रे सर्वद्रव्यं सुशोभनम् । दद्याद् देव्यै महेशानि सुखमाप्नोति साधकः ॥ ७० ॥ चैत्रे मासि महेशानि दद्याच्च घृतपायसम् । दधि क्षीरं मधु द्रव्यं पायसं शर्करां तथा ॥ ७१ ॥ दद्याद् देव्यै महेशानि परं द्रव्यं सुशोभनम् । एवं क्रमेण देवेशि पूजयेद् यस्तु साधकः ॥ ७२ ॥ स मोक्षभाग् भवत्येव सत्यं सत्यं महेश्वरि । इति ते कथितं दिव्यं सर्वपापप्रमोचनम् ॥ ७३ ॥ प्रयोगं यः करोत्येवं स सुखी नात्र संशयः । इति श्रीबृहन्नीलतन्त्रे भैरव भैरवीसंवादे (प्रयोगान्तर-द्वादश- मासविधिनिरूपणं) षोडशः पटलः ॥ १६ ॥ अथ सप्तदशः पटलः । अथ वक्ष्ये महेशानि सार्वज्ञकारणं परम् । रात्रौ देवि वरारोहे प्रथमे प्रहरे गते ॥ १ ॥ मध्यरात्रौ विशेषेण सहस्रं यदि साधकः । प्रजपेत् परया भक्त्या मन्त्रमेनं समाहितः ॥ २ ॥ योनिं पूर्वं पुनर्योनिं बीजयुग्मात्मकं मनुम् । प्रजपेद् मध्यरात्रौ च मन्त्रपूतं जलं क्षिपेत् ॥ ३ ॥