सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८८ बृहन्नीलतन्त्रम् । मूलकं परमं तस्यै दापयेद् यत्नतः शिवे । नैवेद्यैर्विविधैर्देवि चणकादिविभूषितैः ॥ ५८ ॥ कदलीसहितैर्देवि दद्यात् परमसुन्दरि । सूक्ष्मवस्त्रं महादेव्यै ख(टं ट्वां) दद्यात् सुशोभनाम् ॥ ५६ ॥ शय्यायुक्तां महेशानि दापयेत् सुरवन्दिते । एवं क्रमेण यो देवि मार्गे मासि प्रदापयेत् ६०॥ तस्य पुण्यफलं देवि शृणु हे नगनन्दिनि । इह लोके सुखं भुक्त्वा महाराजत्वमाप्नुयात् ॥ ६१ ॥ इति ते कथितं देवि सर्वसिद्धिप्रदायकम् । पौषे मासि महादेवीं स्नपयेदुक्तया दिशा ।। ६२ ॥ पयावकद्रव्यादि दापयेत् सुरमोहिनि । दिवा रात्रौ महादेव्यै दापयेद् भक्तमुत्तमम् ॥ ६३ ॥ सघृतं परमं हृद्यं ताम्बूलादियुतं प्रिये । नैवेद्यं परमं दद्यात् सयत्नैः साधकोत्तमैः ॥ ६४ ॥ माघे मासि महादेवि स्नपयेद् घृतपायसैः । गन्धयुक्तैर्जलैश्चापि स्नपयित्वा परां शिवाम् ।। ६५ ।। देवीसायुज्यमेवात्र प्राप्नुयाद् नात्र संशयः । चर्व्यं चोष्यं तथा लेह्यं पेयं दद्याद् मनोरमम् ॥ ६६ ॥ अन्नं पिष्टादिकं दद्याद् महादेव्यै प्रियङ्करम् । एवं क्रमेण देवेशी तोषयेद् बहुयत्नतः ॥ ६७ ।। इह लोके सुखं भुक्त्वा परत्र मोक्षमाप्नुयात् । फाल्गुने मासि देवेशि स्नपयेत् परमेश्वरीम् ॥ ६७ ॥ घृतेन पयसा वापि स्नपयेत् परमेश्वरीम् । नैवेद्यं परमं दिव्यं सुस्वादु सुमनोहरम् ।। ६६ ।।