सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः पटलः । २८७ स्नपयेत् च कषायेण कल्पामृतरसेन च । नारायणेन तैलेन विष्णुतैलेन वा पुनः ॥ ४६ ॥ अन्येन गन्धतैलेन स्नपयेद् भवमोहिनीम् । दद्याच्च परमं हृद्यं सन्देशं रसनासुखम् ॥ ४७ ॥ लड्डुकं परमं तस्यै दापयेत् सुरनायिके । नानाविधैश्च बलिभिः पूजयेत् शांकरीं शिवाम् ॥ ४८ ॥ एवं पूजां नरः कृत्वा वसेत् कल्पायुतं दिवि । कार्तिके मासि देवेशि स्नपयेदुष्णदुग्धकैः ॥ ४६ ॥ यक्षकर्दमकैर्वापि स्नपयेत् कार्तिके शिवे । भ्रष्टद्रव्यं महादेवि गोधूमादिविकारजम् ॥ ५० ॥ क्षीरेण सहितं दद्याद् महादेव्यै प्रियङ्करम् । नारिकेलं तथा रम्भां गुवाकमिक्षुदण्डकम् ॥ ५१ ॥ जम्भीरं नागरङ्गं च दद्याद् देव्यै सुशोभनम् । कदुष्णं परमान्नं च पिष्टकेन च संयुतम् ॥ ५२ ।। भ्रष्टमत्स्यादिकं तस्यै दापयेद् यत्नतः शिवे । एवं कृत्वा नरः सद्यो जीवन्मुक्तो भविष्यति ॥ ५३ ॥ न तस्य पापपुण्यादि जायते नात्र संशयः । मार्गशीर्षे महादेवि मासश्रेष्ठे च सुन्दरीम् ॥ ५४ ॥ स्नपयेद् उष्णतोयैश्च वस्त्रपूतैः सुगन्धिभिः । कुङ्कुमादिभिरायुक्तैः पुष्पमाल्यमनोहरैः ॥ ५५ ॥ हरिद्रासहितैश्चारग्वधबीजैः सशर्करैः । स्नपयेत् परमेशानी घृताक्तं चान्नमुत्तमम् ॥ ५६ ॥ व्यञ्जनं च घृताक्तं च सगुडं शुक्तिकायुतम् । वार्ताकीभ्रष्टद्रव्येण तोषयेत् परमेश्वरीम् ॥ ५७ ॥