सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८६ बृहन्नीलतन्त्रम् । सचन्दनजलेनैव स्नपयित्वा सुरेश्वरीम् । यमलोकं परित्यज्य कैलासे वसतिर्भवेत् ॥ ३४ ॥ वैशाखे मासि देवेशि स्नपयेत् शीतलैजलैः । नारिकेलोदकं दिव्यं तस्यै दद्याद् मनोहरम् ॥ ३५ ॥ प्रातः संपूजयेद् देवीं सायाह्ने संप्रकाशयेत् । ज्यैष्ठे मासि सुरश्रेष्ठे मल्लिका मालतीं तथा ॥ ३६ ॥ दापयेत् परमेशानि दध्ना च स्नानमाचरेत् । तथा कर्पूरसंमिश्रेस्तोयैश्च स्नपयेत् शिवाम् ॥ ३७ ॥ एवं क्रमेण देवेशीं स्नपयित्वा सुखं भवेत् । शुचौ मासि महादेव्यै शर्करासहितं दधि ॥ ३८ ॥ दद्याच्च परमेशानि स्नपयेत् श्वेतसर्षपैः । शर्करासहिताँल्लाजान् महादेव्यै प्रदापयेत् ॥ ३९ ॥ एवं क्रमेण देवेशि पुरश्चर्याफलं लभेत् । श्रावणे परमेशानि घृतेन स्नपयेत् शिवाम् ॥ ४० ॥ तथा मसूरचूर्णेन स्नपयित्वा महेश्वरीम् । भुक्त्वा च विविधान् भोगान् दुर्गालोके महीयते ॥ ४१ ॥ पिष्टकैः सगुडैर्देवि तोषयेत् परमेश्वरीम् । नभस्ये परमेशानि स्नपयेत् सुरसुन्दरीम् ॥ ४२ ॥ हरिद्रामलकेनैव मथनेनैव सुन्दरि । क्षीरं दद्याद् महादेव्यै शर्करासहितं प्रिये ।। ४३ ॥ छागमांसं पलान्नं च सूक्ष्मान्नसहितेन च । दद्याच्च पिष्टकं मौद्गं क्षीराज्यपरिभूषितम् ॥ ४४ ॥ एवं क्रमेण यो दद्याद् देवीलोकमवाप्नुयात् । इषे मासि प्रवृत्ते तु महादेवी सरस्वतीम् ॥ ४५ ॥