सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८५ षोडशः पटलः । इति ते कथितं देवि राजत्वस्य प्रदायकम् । प्रयोगं मम सर्वस्वं जानीहि नगनन्दिनि ॥ २२ ॥ अन्यं शृणु वरारोहे येन सिद्ध्यति साधकः । ज्यैष्ठे मासि सिते पक्षे ज्येष्ठायुक्ता च सुन्दरि ॥ २३ ॥ पौर्णमासी महेशानि तस्यां स्नानं महाफलम् । चन्दनागुरुकक्कोलैर्वया श्वेतसर्षपैः ॥ २४ ॥ आमलक्या महेशानि हरिद्राचूर्णकेन च । तिलतैलैर्विष्णुतैलैरन्यैश्च गन्धसंयुतैः ॥ २५ ।। नारायणेन तैलेन स्नपयेत् परमेश्वरीम् । नारिकेलोदकेनैव स्नपयेद् यदि कालिकाम् ॥ २६ ॥ लक्षवर्षसहस्रैश्च देवीलोके महीयते । दध्ना च परमेशानि स्नपयित्वा सुरेश्वरीम् ॥ २७ ॥ कल्पकोटिशतेनापि सायुज्याच्च न हीयते । दुग्धेन स्नपयेद् देवी महाकालीं महोज्ज्वलाम् ॥ २८ तस्य लक्ष्मीविशेषेण स्थिरा स्याद् नात्र संशयः । घृतेन स्नपयेद् देवीं सर्वकामार्थसिद्धये ॥ २६ ॥ तथा शर्करया देवि फलमाप्नोति साधकः । मधुना स्नपयित्वा तु सर्वकामवरेश्वरीम् ॥ ३० ॥ कालिकां परमेशानि तथा चैव सरस्वतीम् । सर्वदुःखविनिर्मुक्तः स्वर्गे लोके महीयते ॥ ३१ ॥ सुगन्धिपुष्पतोयेन स्नपयेत् परमेश्वरीम् । तस्य पुण्यफलं देवि शृणुष्वैकमनाः प्रिये ॥ ३२ ॥ कल्पकोटिसहस्रेस्तु देवीसायुज्यमाप्नुयात् । भुक्ते च विविधान् भोगान् यावदाभूतसंप्लवम् ॥ ३३ ॥