सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८२ बृहन्नीलतन्त्रम् । शच्या सार्धं पुरा रेमे यत्र शक्रः सुरेश्वरः । तत्पूर्वं सा महादेवि नदी कपिलसंज्ञिता ॥ १२७ ॥ तस्यां स्नात्वा जलं पीत्वा देवीलोके महीयते । कालिकानिलयात् पूर्वदक्षिणस्यां तथा दिशि ॥ १२८ ॥ विद्यते महदावृत्तं पवित्रं भूबिलं महत् । पञ्चविंशतिमानेन योजनानां गणेश्वरि ॥ १२६ ॥ तस्मादायाति स्म नदी सर्वदेवनमस्कृता । को ब्रह्मा कीर्तितो देवैर्यस्मात् तस्य पिला स्मृता ॥ १३० ॥ गङ्गेव फलदा यस्मात् तस्मात् कपिलसंज्ञिता । स्नात्वा कपिलगङ्गायां पूर्वमन्यतरासु च ॥ १३१ ॥ नरः स्वर्गमवाप्यादौ देवीलोकं ततो व्रजेत् । अभीष्टदा नदीपूर्वभागे दमनिकाह्वया ॥ १३२ ।। नदी महाहृष्टतोया पापानां शमनी तथा । ततो ब्रह्माह्वया चाभूद् अपरा सरिदुत्तमा ।। १३३ ।। तस्या नद्याः पूर्वभागे गङ्गावत् फलदायिनी । माघमासं तु सकलं नद्यां स्नात्वा महेश्वरि ॥ १३४ ॥ तथा दमनिकायां तु परं निर्वाणमाप्नुयात् । इति श्रीबृहन्नीलतत्रे भैरव भैरवीसंवादे (साधनस्थानान्तरनि- रूपणं) पञ्चदशः पटलः ॥ १५ ॥