सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः पटलः । १८१ अथ वक्ष्ये महेशानि सूर्यस्यापि च मन्त्रकम् । रूपं मन्त्रं च तन्त्रं च सूर्यस्यापि च संशृणु ॥ ११५ ॥ सप्तानामितरेषां तु मन्त्ररूपं शृणुष्व मे । रक्ताम्भोजधरः शूली शक्तिमांश्च गदाधरः ॥ ११६ ॥ चतुर्भुजो भानुरयं वरदो मेऽस्तु मङ्गलः । प्रणवं पूर्वमुद्धृत्य हान्तवर्णं ततो न्यसेत् ॥ ११७ ॥ चन्द्रेण पुटितं बीजं द्वितीयं बीजमुत्तमम् । तृतीयं शृणु चाप्वङ्गि वह्निबीजं महात्मकम् ॥ ११८ ॥ अनेन मन्त्रराजेन सूर्यस्य पूजनं भवेत् । इदानींं कथयिष्यामि कञ्जलाचलमुत्तमम् ॥ ११६ ।। यत्र गौरी महादुर्गा शिवेन सहिता सती । सर्वे विद्याधराद्यास्तु सन्त्यत्र देवयोनयः ॥ १२० ॥ तं पर्वतं दिव्यरूपं समीक्ष्य च जपेद् दश । सहस्रान्तं मनुं प्रोक्तं सर्वसर्वस्वगोचरे ॥ १२१ ।। थान्तबीजं समुद्धृत्य वामगण्डविभूषितम् । अर्धचन्द्रेण पुटितं बीजमाद्यं प्रियङ्करम् । १२२ ॥ महाशक्ति वरारोहे द्वितीयं बीजमुद्धृतम् । वह्निजायावधि मन्त्रं दुर्गाया बीजमुत्तमम् ॥ १२३ ।। तेन बीजेन देवेशि कालिकां पूजयेत् शिवे । सहस्रस्य प्रमाणेन जपं कुर्यात् शुचिस्मिते ॥ १२४ ॥ तत्र जप्ते महेशानि मोक्षमाप्नोति साधकः । एकस्मिंश्च महेशानि पुरश्चरणके कृते ॥ १२५ ।। पुरश्चरणलक्षाणां फलं तत्र भविष्यति । तस्य पूर्व महेशानि शुभपर्वतके शुभे ॥ १२६ ।।