सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८० बृहन्नीलतन्त्रम् । विशेषो यत्र नैवोक्तो रूपे तन्त्रे च पूजने । नीलातन्त्रोक्तरूपेण तत्र पूजां समाचरेत् ॥ १०३ ॥ प्रत्येकं योगिनी यस्तु पूजयेत् सुरवन्दिते । स सर्वयज्ञस्य फलं लभते नात्र संशयः ॥ १०४ ॥ नीलशैलस्य रूपस्य स्वरूपं प्रतिपादितम् । नाभिमण्डलपूर्वस्यां भस्मकूटस्य दक्षिणम् ॥ १०५ ॥ पूर्वस्यां कपटो नाम पर्वतो यः स्वरूपधृक् । तत्र याम्या शिला कृष्णा नीलाञ्जनसमप्रभा ।। १०६ ॥ अधित्यकायां राजेन्द्रं व्यासपञ्चसुरान्तकम् । पूजयेत् तत्र शमनं पा(शौ?शं)दण्डं सदैव यः ॥ १०७ ॥ धत्ते तु पाणिना नित्यं प्राणिदण्डस्य साधनम् । कृष्णवर्णंं तु द्विभुजं किरीटमुकुटोज्ज्वलम् ॥ १०८ ॥ दधतं चासिपत्रं च वामपाणौ सदैव हि । कृष्णवर्णं स्थूलपादं बहिनिःसृतदन्तकम् ॥ १०६ ॥ भयाभयप्रदं नित्यं नृणां महिषवाहनम् । पूजयेत् परया भक्त्या यमबीजेन सुन्दरि ॥ ११० ॥ उपान्त्यवर्गस्यान्ते यो वर्णो बिन्द्बिन्दुसंयुतः । यमबीजमिति ख्यातं यमस्य प्रीतिकारकम् ॥ १११ ॥ अनेनैव तु मन्त्रेण यमं हि पूज(येत् यन्) शिवे । कपटाख्याचलवरे नापमृत्यु समाप्नुयात् ॥ ११२ ॥ पूर्वस्यां कपटाख्यस्य शैलोऽर्चिष इति स्मृतः । यः पूर्वभाग्यैः प्राप्तो भृङ्गेश्याग्नेय्यामवस्थितः ।। ११३ ।। अस्मिन् वसन्ति सततं ग्रहाश्चैव यथेच्छया । एतांश्च पूजयेद् यस्तु स नाप्नोत्यापदं क्वचित् ॥ ११४ ॥