सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः पटलः । १७६ स एव मन्त्रो ग्राह्यस्तु तादृविधिनिषेवणम् । द्विभुजो पीनवदनो रक्तनेत्रो भयङ्करः ॥ ११ ॥ छुरिका दक्षिणे पाणौ वामे रुधिरपात्रकम् । दंष्ट्राकरालवदनः कृशो धमनिसन्ततः ॥ १२ ॥ जटां दीर्घा मूर्ध्नि विभ्रद् घोररावयुतः परः । यः पूजयेत् तस्य पुनर्भूतादिभ्यो भयं नहि ॥ १३ ॥ अथ वक्ष्ये महेशानि योगिनीतत्त्वमुत्तमम् । शैलपुत्रीप्रमुख्यानां मन्त्राण्यष्टाक्षराणि च ॥ ६४ ।। वैष्णवीतन्त्रमन्त्राणि पूर्वप्रोक्तानि तानि च । शैलपुत्र्यास्तथा चाङ्गं मन्त्रं प्राक्प्रतिपादितम् ॥ १५ ॥ रूपसदृशवर्णानां योगिनीनां विशेषतः । प्रत्यक्षरेण बीजेन दुर्गातन्त्रोक्तवर्त्मना ।। ६६ ॥ नैजबीजेनैव पूज्या योगिन्यश्च महेश्वरि । कात्यायनीपादयुग्मं दुर्गातन्त्रेण पूजयेत् ॥ ७ ॥ तदेव पूजनं रूपं तत्पूर्वं प्रतिपादितम् । प्रणवं पूर्वमुद्धृत्य छान्तवर्णं समादिशेत् ॥ १८ ॥ वामगण्डेन संयुक्तं चन्द्रबिन्दुविभूषितम् । हंसशेषविसर्गान्तं मन्त्रं सर्वप्रियं शिवे ॥ ६ ॥ कालरात्रिं पूजयित्वा सर्वैश्वर्ययुतो भवेत् । अनेनैव विधानेन पूजयेद् भुवनेश्वरीम् ॥ १०० ।। महाशक्तिं समुद्धृत्य वाग्भवं तदनन्तरम् । पुनयोनिं समासाद्य बीजत्रयमुदाहृतम् ॥ १०१ ॥ अनेन मन्त्रराजेन पूजयेद् भुवनेश्वरीम् । एताः सर्वास्तु योगिन्यः कामाख्यावत् फलप्रदाः ॥ १०२ ॥