सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

d १७८ बृहन्नीलतन्त्रम् ।. अमृतेनामृतं चाद्य देहि देवि ममोर्वशि । पुरन्दरप्रिये देवि वाराङ्गनाकुलाधिके ।। ७६ ॥ लौहित्यह्रदसंकीर्णे पापं हर ममोर्वशि । इत्येभिः स्तुतिमन्त्रैश्च स्नात्वा पुण्योर्वशीवने ॥ ८० ।। सर्वपापविनिर्मुक्तो विष्णुलोके विराजते । उर्वशी द्विभुजा प्रोक्ता स्वर्णकङ्कणधारिणी ॥ ८१ ॥ शुक्लवस्त्रा गौरवर्णा पीनोन्नतपयोधरा । सर्वाङ्गसुन्दरी शुद्धा सर्वाभरणभूषिता ॥ ८२ ॥ उमामिन्द्रस्तु गदितं मन्त्रमस्याः प्रकीर्तितम् । गणेशः पूर्वदेशस्थः कामाख्यापर्वतस्य च ॥ ८३ ॥ तत्रैव चाग्निवेतालः स्थितः द्वारि मनोहरः । तयोः रूपं च मन्त्रं च यथोक्तं च महेश्वरि ॥ ८४ ॥ तदहं प्रतिवक्ष्यामि शृणुष्वैकमनाः प्रिये । प्रणवं परमेशानि हृदयं तदनन्तरम् ।। ८५ ।। हस्तिमुखायेति तदा निजबीजादिसंयुतः । मन्त्रं सि(द्धिद्ध)गणेशस्य द्वारस्थस्य प्रकीर्तितम् ॥ ८६ ॥ रूपं तस्य प्रवक्ष्यामि गजवक्त्रं त्रिलोचनम् । लम्बोदरं चतुर्बाहुं व्यालयज्ञोपवीतिनम् ।। ७ ।। शूर्पकर्ण बृहत्तुण्डमेकदन्तं पृथूदरम् । दक्षिणे करिदन्तं च उत्पलं च तथा परे ।। ८८ लड्डुकं परशुं चैव वामतः परिकीर्तयेत् । बृहद्वक्षस्त्रिनयनं पीनस्कन्धाङ्घ्रिपाणिनम् ॥ ८६ ॥ युक्तं बर्हि कुरङ्गीभ्यां मध्यस्थमृषकान्वितम् । मन्त्रस्तु यादृशः प्रोक्तः पञ्चवक्त्रस्य पूजने ॥ १० ॥ ।