सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः पटलः । १७७ प्रदक्षिणेन संपूज्य देवीसायुज्यमाप्नुयात् । पाण्डुनाथात् पूर्वदिशि गिरिश्चित्रमहो हरिः ॥ ६७ ॥ सततं यत्र वसति विष्णुर्वाराहरूपधृक् । ततस्तु नीलकूटाख्यं कामाख्यानिलयं परम् ॥ ६८ ।। तत्पूर्वभागे वसति ब्रह्मा ब्रह्मगिरिः पुनः । । ब्रह्मशैलस्य पूर्वस्यां भूमिपीठो व्यवस्थितः ।। ६६ ॥ चारुलिङ्गं शुभ्रवर्णं कामाख्यानाभिमण्डलम् । तत्रोग्रतारारूपेण रमते परमेश्वरी ॥ ७० ॥ तत्र तेनैव रूपेण पूजितव्या शुभात्मिका । रूपं शृणु वरारोहे तत्र ध्येया सदाशिवा ॥ ७१ ॥ कृष्णा लम्बोदरी दीर्घा विह्वला रक्तदन्तिका । चतुर्भुजा कृशाङ्गी च दक्षिणे कर्त्रिखर्परौ ॥ ७२ ।। खङ्गं चेन्दीवरं वामे शीर्षे चैव जटा पुनः । वामपादं शवस्योर्वोर्निधायोत्तमदक्षिणम् ॥ ७३ ।। शवस्य हृदये न्यस्य साट्टहासं प्रकुर्वती । नागहारशिरोमाला भूतिदा कामदा परा ।। ७४ ॥ त्रिकोणमण्डलं चास्याः हुंकारमध्यबीजकम् । द्वारेनाना योगिनीनां नामान्यासां तु तत्रके ॥ ७५ ॥ ज्ञेयानि नरशार्दूलैर्यत् प्रोक्तं चास्य गोचरे । उर्वश्यां विधिवत् स्नात्वा स्पृष्ट्वा पाण्डुशिलास्तथा ॥ ७६ ॥ नीलकूटं समारुह्य पुनर्योनौ न जायते । तत्र देवी पूजयित्वा सर्वसिद्धीश्वरो भवेत् ॥ ७७ ॥ पुरन्दरपुरीयाते वाराङ्गनाकुलाधिके । सुधासंकीर्णतोऽमोघे पापं हर मनोहरे ॥ ७८ ।।