सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७६ बृहन्नीलतन्त्रम् । खड्गहस्तो महाकायो वामे चर्मधरस्तथा । जटाजूटसमायुक्तः (पा प्रां)शुः कृष्णाचलोपमः ।। ५५ ।। द्विभुजः कृष्णवर्णस्तु शवस्योपरि संस्थितः । रक्षःकूटं समारुह्य निर्ऋतिं राक्षसेश्वरम् ॥ ५६ ।। यः पूजयेद् महादेवी कालिकां कालरूपिणीम् । नास्ति तस्य च रक्षेभ्यो भयं सुरगणार्चिते ॥ ५७ ।। राक्षसाश्च पिशाचाश्च वेतालाश्च (ग?वि)नायकाः । तां दृष्ट्वा च महाकालीं सर्वपापैः प्रमुच्यते ॥ ५८ ।। रक्षःकूटात् पूर्वदिशि भैरवो नाम (साधक?पर्वतः) । पाण्डुनाथ इति ख्यातो यथारूपेण संस्थितः ।। ५६ ।। तत्रैव पूजयेद् देवं पाण्डुनाथाह्वयं गिरिम् । वर्णेन धनवर्णेन गदापद्मधरः करे । ६० ।। दक्षिणे कमला देवी बाहुभ्यामपि विभ्रतम् । चतुर्भुजं रक्तपद्मसंस्थितं मुकुटाकुलम् ॥ ६१ ॥ कुण्डले बिभ्रतं शुद्धे श्रीवत्सोरस्कमुत्तमम् । नमो नारायणायेति मूलबीजेन वै हरेः ॥ ६२ ॥ एवं संपूजयेद् देवं चतुर्वर्गस्य सिद्धये । पाण्डुनाथस्योत्तरस्यां ब्रह्मकूटाह्वयो गिरिः ॥ ६३ ।। ब्रह्मणा निर्मितः पूर्वं वासार्थं स्वर्गवासिनाम् । आयामेन शतव्यामं विस्तारेण तदर्धकम् ।। ६४ ।। सर्वपापहरं पुण्यं देवसेकात् समागतम् । कमण्डलुसमुद्भूत ब्रह्मकुण्डामृतोदर ।। ६५ ।। हर मे सर्वपापानि पुण्यं शुद्धं च साधय । इति देवि प्रकारेण ब्रह्मकूटं महागिरिम् ।। ६६ ॥